श्रद्धार्घ्य-परिवारस्य वार्षिकोत्सवे प्रतिभानां सम्मानम्
खडगपुरम्, ०१ जूनमासः (हि.स.)। खड़्गपुर-नगरस्य हिजली-सोसाइटी-स्थिते मैत्री-भवन-सभागारे रविवासरे रात्रौ ‘श्रद्धार्घ्य-परिवारस्य’ पञ्चमः वार्षिकोत्सवः आयोजितः। कार्यक्रमे सहस्र-पूर्णचन्द्र-दर्शनस्य सौभाग्येन धन्यस्य वरिष्ठ-समाजसेविनः श्यामसुन्दर-बर-मह
श्रद्धार्घ्य परिवार के वार्षिक समारोह में सम्मानित प्रतिभाएं


श्रद्धार्घ्य परिवार के वार्षिक समारोह में सम्मानित प्रतिभाएं


खडगपुरम्, ०१ जूनमासः (हि.स.)। खड़्गपुर-नगरस्य हिजली-सोसाइटी-स्थिते मैत्री-भवन-सभागारे रविवासरे रात्रौ ‘श्रद्धार्घ्य-परिवारस्य’ पञ्चमः वार्षिकोत्सवः आयोजितः। कार्यक्रमे सहस्र-पूर्णचन्द्र-दर्शनस्य सौभाग्येन धन्यस्य वरिष्ठ-समाजसेविनः श्यामसुन्दर-बर-महाभागस्य श्रद्धाञ्जलिः समर्पिता तथा आर्थिकदृष्ट्या दुर्बल-परिवाराणां १५ छात्र-छात्राभ्यः शिक्षा-सहायक-सम्मान-निधिः प्रदत्ता।

समारोहे ‘श्रद्धार्घ्य-स्मारक-सम्मान-२०२६’ इति सम्मानं विविध-क्षेत्रेषु उल्लेखनीय-योगदानं दत्तवतां विशिष्ट-व्यक्तित्वानां कृते प्रदत्तम्। समाज-सेवा-क्षेत्रे प्रसिद्धः एक्यूप्रेशर-चिकित्सकः मृत्युंजय-भट्टाचार्यः, साहित्य-क्षेत्रे साहित्यकारः सुनील-माझी तथा कला-क्षेत्रे नृत्याङ्गना रिंकू-चट्टोपाध्यायः सम्मानिताः अभवन्।

एतदतिरिक्तं संस्कृत-मन्त्र-पाठस्य तथा सङ्गीत-प्रस्तुतेः कृते बाल-कलाकारौ अहना-अद्रिजा च, सेवा-कार्येषु सनातन-धर्म-प्रचाराय च भारत-सेवाश्रम-संघस्य डोकरा-शाखायाः (झाड़ग्राम) अध्यक्षः स्वामी सुरेशानन्द-महाराजः अपि सम्मानितः अभवत्।

कार्यक्रमस्य अवधौ श्रीमद्भगवद्गीतायाः पञ्चदश-अध्यायस्य पाठः रूमा-पाडिया-महाभागया कृतः। समारोहे भारतीय-प्रौद्योगिकी-संस्थानस्य (आईआईटी) खड़्गपुर-केन्द्रस्य अनेके विख्याताः प्राध्यापकाः, ग्रामीण-क्षेत्रस्य मातृशक्तिः, सामाजिक-संस्थानानां प्रतिनिधयः, आयोजकाः तथा विविध-क्षेत्राणां गणमान्य-व्यक्तयः उपस्थिताः आसन्।कार्यक्रमस्य संयोजकः अशोक-कुमार-पाडिया अवदत् यत् ‘श्रद्धार्घ्यम्’ एकः सामाजिक-सांस्कृतिक-उपक्रमः अस्ति, यस्य अन्तर्गतं समाजसेविनः, वरिष्ठ-नागरिकाः तथा विशिष्ट-व्यक्तयः स्वीय-योगदानाय सम्मान्यन्ते, तेषां सम्मानार्थं श्रद्धाञ्जलि-स्मरण-कार्यक्रमाश्च आयोज्यन्ते। सः अग्रे उक्तवान् यत् संस्थायाः प्रमुखम् उद्देश्यं समाजस्य वञ्चित-वर्गाणां साहाय्यं, शिक्षायाः, संस्कृतेः तथा सामाजिक-मूल्यानां संवर्धनं च अस्ति। कार्यक्रमस्य समापनं सम्मान-वितरणेन मनोहारिभिः सांस्कृतिक-प्रस्तुतिभिश्च सम्पन्नम्।

Hindusthan Samachar / Divya Ranjan