Enter your Email Address to subscribe to our newsletters

नवदेहली, १ जूनमासः (हि.स.)। पादकन्दुक-क्रीडाप्रेमिणां कृते महत्त्वपूर्णा वार्ता अस्ति। फीफा-विश्वकप-२०२६ प्रतियोगितायाः प्रसारणाधिकाराः भारते जी-एण्टरटेन्मेण्ट-एण्टरप्राइजेज-लिमिटेड् इत्यनेन प्राप्ताः। संस्थया प्रतियोगितायाः प्रसारणस्य तथा डिजिटल-प्रवाहणस्य अधिकार-प्राप्तेः घोषणा कृता।
सम्झौतानुसारं विश्वकपस्य सर्वे स्पर्धात्मक-सामनाः जी-समूहस्य नवप्रारब्धेषु चतुर्षु क्रीडा-चैनल-इत्येतेषु प्रत्यक्षतया प्रसार्यन्ते। तदतिरिक्तं जी५ मञ्चे सर्वेषां स्पर्धानां प्रत्यक्ष-प्रवाहणम् (लाइव-स्ट्रीमिङ्ग्) उपलब्धं भविष्यति। एषा घोषणा प्रतियोगितायाः आरम्भात् प्रायः द्वे सप्ताहे पूर्वं कृता।
११ जून-दिनाङ्कात् १९ जुलै-पर्यन्तं आयोज्यमाना एषा प्रतियोगिता संयुक्त-राज्य-अमेरिका, मेक्सिको तथा कनाडा इत्येषां संयुक्त-आतिथ्ये सम्पन्ना भविष्यति।
जी-समूहः पूर्वम् अपि आई-लीग तथा उत्तरप्रदेश-कबड्डीस्पर्धा इत्यादीनां क्रीडा-प्रतियोगितानां प्रसारणं कृतवान्। अस्मिन् एव मासे संस्थया स्वस्य ‘यूनाइटेड् ८’ समूहस्य अन्तर्गतं चत्वारि नवीनानि क्रीडा-चैनल प्रारब्धानि, ततः परं फीफा-संस्थया सह अधिकार-सम्बद्धा वार्ता आरब्धा आसीत्।
जी-एण्टरटेन्मेण्ट्-संस्थायाः मुख्य-कार्यकारी-अधिकारी पुनीत-गोयंका आधिकारिक-वक्तव्ये उक्तवान्— “विश्वस्य महत्तमेषु क्रीडा-आयोजनेषु अन्यतमां प्रतियोगितां भारतीय-दर्शकेभ्यः प्रदर्शयितुं वयं उत्साहिताः स्मः। पादकन्दुक-क्रीडा भाषा-प्रदेशयोः सीमाः अतिक्रम्य जनान् संयोजयति। प्रसारण-अधिकार-प्राप्तिः तथा नवीन-क्रीडा-चैनलानां प्रारम्भः अस्याः क्रीडायाः दीर्घकालिक-सम्भावनासु अस्माकं विश्वासं दर्शयति।”
यद्यपि सन्धे: आधिकारिक-मूल्यं सार्वजनिकतया न प्रकाशितम्, तथापि विविध-प्रतिवेदनानुसारम् अस्य मूल्यं ३० तः ३५ मिलियन-अमेरिकी-डॉलर-पर्यन्तं (प्रायः ३२०-कोटि-रूप्यकाणि) अस्ति।
फीफा-विश्वकप-२०२६ प्रतियोगिता इतिहासस्य बृहत्तमा आवृत्तिः भविष्यति। अस्मिन् ४८ दलानि सहभागित्वं करिष्यन्ति तथा १०४ स्पर्धाः आयोजयिष्यन्ते। तथापि भारतीय-समयानुसारं बहवः अर्धरात्रेः अनन्तरं आरभ्यन्ते इति कारणेन आरम्भे प्रसारण-संस्थानां रुचिः सीमिता आसीत्।
सूचनानुसारं फीफा-संस्थया प्रारम्भे भारतस्य कृते प्रसारण-अधिकाराणां मूल्यं प्रायः १०० मिलियन-अमेरिकी-डॉलररूपेण निर्धारितम् आसीत्, किन्तु न्यून-याचनायां दृष्टायां तत् न्यूनीकृत्य प्रायः ३५ मिलियन-अमेरिकी-डॉलर-पर्यन्तं कृतम्।
निशीथ-समये सामनानां आयोजनम् तथा पादकन्दुक-प्रवाहणे क्षीयमाणा रुचिः इत्यादिकारणात् पूर्वं सोनी संस्थया अस्मात् प्रसारण-अधिकार-प्रक्रियातः दूरीकृतम्, तथा गत-विश्वकपस्य प्रसारकः जियोस्टार अपि अधिकार-मूल्यं केवलं २० मिलियन-अमेरिकी-डॉलर-पर्यन्तमेव मूल्याङ्कितवान्। एतादृशी परिस्थितौ जी-नेटवर्कः अग्रे आगत्य एतान् प्रसारण-अधिकारान् स्वाधीनान् कृतवान्।
Hindusthan Samachar / Divya Ranjan