पश्चिमबङ्गाले अद्यारभ्य महिलाभ्यः शासकीय-बसयानेषु निःशुल्क-यात्रा, परिवहन-विभागेन विस्तृत-निर्देशिकाः प्रसारिताः
कोलकातानगरम्, ०१ जूनमासः (हि.स.)। पश्चिमबङ्ग-सर्वकारेण स्वस्य निर्वाचन-प्रतिज्ञां कार्यान्वयन् सोमवासरात् राज्यस्य सर्वासु शासकीय-बससेवासु महिलानां कृते निःशुल्क-यात्रा-सुविधा प्रवर्तिता। एषा व्यवस्था सामान्य-अवातानुकूलित-बसयानेषु तथा वातानुकूलितेष
भारत से उद्धार कर बसो द्वारा नेपाल लाए गए नेपाली


कोलकातानगरम्, ०१ जूनमासः (हि.स.)। पश्चिमबङ्ग-सर्वकारेण स्वस्य निर्वाचन-प्रतिज्ञां कार्यान्वयन् सोमवासरात् राज्यस्य सर्वासु शासकीय-बससेवासु महिलानां कृते निःशुल्क-यात्रा-सुविधा प्रवर्तिता। एषा व्यवस्था सामान्य-अवातानुकूलित-बसयानेषु तथा वातानुकूलितेषु दीर्घ-दूरीय-शासकीय-बसयानेषु अपि प्रवर्तिष्यते।

परिवहन-विभागस्य अनुसारेण सप्ताहस्य प्रथम-कार्यदिवसे यात्रिकाणाम् अतिरिक्त-सम्मर्दं दृष्ट्वा कोलकाता-नगरस्य समीपवर्ती-क्षेत्रेषु च प्रायः ६०० वातानुकूलित-अवातानुकूलित-शासकीय-बसयानानि मार्गेषु सञ्चालितानि। नवीन-व्यवस्थायाः सुचारु-सञ्चालनार्थं प्रमुख-बस-संस्थात्रेषु महत्त्वपूर्ण-यात्री-केन्द्रेषु च परिवहन-विभागस्य अधिकारिणः नियुक्ताः सन्ति।

सर्वकारेण स्पष्टतया उक्तं यत् राज्यस्य सर्वाः महिला-यात्रिकाः अस्याः योजनायाः लाभं प्राप्तुं पात्राणि भविष्यन्ति। भविष्ये प्रत्येकं महिला-यात्रिकायै एकं डिजिटल-स्मार्ट-कार्डपत्रकं प्रदास्यते, यस्मिन् नाम, छायाचित्रं तथा क्यूआर-सङ्केतः अभिलेखितः भविष्यति। अस्य पत्रकस्य कृते निर्धारितम् आवेदन-पत्रं सम्बन्धिते बीडीओ अथवा एसडीओ-कार्यालये समर्पणीयम्।

किन्तु स्मार्ट-कार्ड-वितरण-प्रक्रियायाः सम्पूर्णतां प्राप्तुं अद्यापि कतिपय-मासानां आवश्यकता वर्तते। तावत्कालिकरूपेण परिचय-सत्यापनार्थं बहूनि शासकीय-तथ्यानि मान्यानि भविष्यन्ति। तेषु आधार-पत्रकम्, मतदाता-परिचय-पत्रम्, पैन-कार्डः, वाहन-चालन-अनुज्ञापत्रम्, पारपत्रम् (पासपोर्ट), आयुष्मान-भारत-पत्रम्, कार्यालयीय-परिचय-पत्रम् तथा विद्यालय-महाविद्यालय-विश्वविद्यालयैः प्रदत्तानि परिचय-पत्राणि समाविष्टानि सन्ति।

परिवहन-विभागेन उक्तं यत् स्मार्ट-कार्ड-व्यवस्थायाः कार्यान्वयनपर्यन्तम् अस्थायी-व्यवस्थायाः अन्तर्गतं बस-परिचालकाः परिचय-पत्राणां परीक्षणानन्तरं महिला-यात्रिकाभ्यः शून्य-मूल्यस्य यात्रापत्रं अथवा तापीय-कागद-निर्मितं यात्रापत्रं प्रदास्यन्ति।

विभागस्य एकेन वरिष्ठ-अधिकारिणा उक्तं यत् नवीन-व्यवस्थायाः प्रारम्भिकेषु द्वि-त्रिषु दिवसेषु कतिपयाः परिचालन-सम्बद्धाः समस्याः उद्भवितुं शक्नुवन्ति, किन्तु शीघ्रमेव यात्रिकाः बस-कर्मचारिणश्च अस्याः व्यवस्थायाः अनुरूपं कार्यं कर्तुं अभ्यस्ताः भविष्यन्ति। सर्वकारस्य कथनम् अस्ति यत् अस्य प्रयत्नस्य माध्यमेन राज्यस्य लक्षशः महिलाभ्यः प्रतिदिनं यात्राव्यये न्यूनता भविष्यति।

Hindusthan Samachar / Divya Ranjan