गौः स्वयमेव राष्ट्रमाता अस्ति, तां घोषयितुं कापि आवश्यकता नास्ति - योगी-आदित्यनाथः
बिजनौर-जनपदः, १ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् गाम् राष्ट्रिय-पशुरूपेण घोषयितुं कृतायाः चर्चायाः आवश्यकता नास्ति, यतः भारतीय-संस्कृतौ गौः आदिकालात् एव मातृरूपेण पूज्यते। सः अवदत्— “माता-पुत्रयोः सम्बन्धः क
योगी जी का स्वागत करते हुए


सभा में मौजूद भीड़


मंचासीन मुख्यमंत्री व नेता


बिजनौर-जनपदः, १ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् गाम् राष्ट्रिय-पशुरूपेण घोषयितुं कृतायाः चर्चायाः आवश्यकता नास्ति, यतः भारतीय-संस्कृतौ गौः आदिकालात् एव मातृरूपेण पूज्यते। सः अवदत्— “माता-पुत्रयोः सम्बन्धः कस्यापि घोषणायाः अपेक्षां न करोति। गौः अस्माकं माता अस्ति, राष्ट्रमाता च अस्ति। तां पृथक् घोषयितुं कापि आवश्यकता नास्ति।”

मुख्यमन्त्री सोमवासरे बिजनौर-जनपदस्य आलमपुर-गांवड़ी-ग्रामे भूम्यधिकार-वितरण-अवसरे आयोजितं कार्यक्रमं सम्बोधयन् एतानि वचनानि उक्तवान्। अस्मिन् अवसरे तेन पाकिस्तानात् विस्थापितेभ्यः १६४५ परिवाराणां, ५० भूतपूर्व-सैनिकानां तथा लीजधारकाणां भूमिधरी-अधिकार-पत्राणि प्रदत्तानि। एतेन लाभार्थिनः भूमौ वैधानिक-स्वामित्वम् अवाप्नुवन्।

सः अवदत् यत् प्रदेश-सर्वकारः वञ्चितानां, शोषितानां तथा आवश्यकतायुक्तानां जनानां मुख्यधारया सह संयोजनाय प्रतिबद्धः अस्ति तथा प्रत्येकं पात्रं जनं सर्वकारीय-योजनानां लाभं प्रापयितुं प्रयतते। अस्मिन् अवसर एव तेन जनपदे बहुमूल्यानां विकास-परियोजनानां लोकार्पणं शिलान्यासं च कृतम्।

मुख्यमन्त्री गौ-संरक्षणस्य, विधि-व्यवस्थायाः, विकास-योजनानां तथा विस्थापित-परिवाराणां विषयेषु प्रत्यक्षतया जनतया सह संवादम् अकरोत्। सः अवदत् यत् १९४७-४८ तमे वर्षे पाकिस्ताने कट्टरपन्थिभिः येषां सम्पत्तयः अपहृताः आसन्, तेषां विस्थापितानां भूम्यधिकाराः अधुना पुनः सुनिश्चिताः क्रियन्ते। अवशिष्ट-विस्थापितेभ्यः अपि अग्रिम-चरणे भूमेः स्वामित्व-अधिकारः प्रदास्यते इति तेन उक्तम्।

योगी-आदित्यनाथः अवदत् यत् केचन मौलवी-मुल्लाः गौमातरं राष्ट्रिय-पशुरूपेण घोषयितुं वदन्ति। तान् प्रति सः उक्तवान्— “गौः अस्माकं माता अस्ति, जन्म-जन्मान्तरस्य सम्बन्धः अस्ति। माता-पुत्रयोः मध्ये किमपि घोषणापत्रम् अपेक्षितं भवति किम्? भवतां चिन्तनमेव पशुवत् अस्ति, यतः यूयं मातरं पशुरूपेण पश्यथ।”

सः पुनरुक्तवान् यत् यथा गौः राष्ट्रमाता अस्ति, तथैव गङ्गा अपि अस्माकं माता अस्ति। अस्माकं संस्काराः, धार्मिक-परम्पराः च गङ्गायाः सान्निध्ये एव सम्पन्नाः भवन्ति। अतः एतत् पृथक् कथयितुं न आवश्यकम् यत् गङ्गा अस्माकं माता अस्ति।

मुख्यमन्त्री कट्टरपन्थिनः आलोचयन् अवदत् यत् पाकिस्तानात् आगतेषु हिन्दू-विस्थापितेषु विषये कस्यचित् मौलवेः स्वरः न श्रुतः। बाङ्ग्लादेशे तथा पाकिस्ताने हिन्दूनां स्थितेः विषये अपि ते मौनमेव धारयन्ति। सः अवदत् यत् बाङ्ग्लादेशे हिन्दूनां प्रतिशतं २२ तः ७ पर्यन्तं न्यूनम् अभवत्, पाकिस्ताने च १४ तः केवलं २ प्रतिशतं शिष्टम् अस्ति।

सः अवदत् यत् सर्वकारस्य सजग-नीतिनां कारणात् रामनवमी, शिवरात्रिः, होलिका, दीपमालिका इत्यादयः उत्सवाः शान्तिपूर्वकं सम्पद्यन्ते। पूर्वं एतेषां पर्वणां आयोजनं कठिनं भवति स्म।

मुख्यमन्त्री प्रधानमन्त्रिणः नरेन्द्र-मोदिनः तथा केन्द्रीय-गृहमन्त्रिणः अमित-शाहस्य प्रशंसां कृत्वा अवदत् यत् ताभ्यां पारितेन नागरिकता-संशोधन-विधेयकेन बाङ्ग्लादेशात्, अफगानिस्तानात्, पाकिस्तानात् तथा अन्येभ्यः देशेभ्यः आगतेभ्यः हिन्दू-बौद्ध-सिख-समुदायस्य जनानां नागरिक-अधिकाराः सुनिश्चिताः अभवन्। तेन अधुना तेषां भूमेः वैधानिक-स्वामित्वम् अपि प्रदातुं शक्यते।

कार्यक्रमे प्रधानमन्त्रि-आवास-योजना, मुख्यमन्त्री-युवा-उद्यमी-विकास-अभियानम्, राष्ट्रिय-ग्रामीण-आजीविका-अभियानम् तथा स्वयं-सहायता-समूहैः सम्बद्धेभ्यः लाभार्थिभ्यः स्वीकृति-पत्राणि, प्रमाण-पत्राणि तथा प्रतीकात्मक-धनादेशाः अपि वितरिताः। विविध-विभागानां ११ प्रेरणादायक-लाभार्थिनः सम्मानिताः। स्वयं-सहायता-समूह-महिलाभिः सञ्चालितस्य विदुर-प्रेरणा-कैफे इत्यस्य उद्घाटनम् अपि कृतम्।

अस्मिन् कार्यक्रमे मन्त्रिणः भूपेन्द्र-सिंहः, जनपद-प्रभारी-मन्त्री कपिलदेव-अग्रवालः, विधायकाः सुशान्त-सिंहः, अशोक-राणः, सुचि-चौधरी, ओम्-कुमारः, पूर्व-सांसदः भारतेन्द्र-सिंहः, पूर्व-भाजपा-जनपदाध्यक्षः सुभाष-वाल्मीकिः तथा अन्ये बहवः गणमान्य-जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan