Enter your Email Address to subscribe to our newsletters


उज्जयिनीनगरम्, १ जूनमासः (हि.स.)। मध्यप्रदेशस्य धर्मनगरी-उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्री-महाकालेश्वर-ज्योतिर्लिङ्ग-मन्दिरे सोमवासरे प्रातःकाले चलचित्र-जगतः चर्चिताः बाबा-महाकालस्य दर्शनाय समुपस्थिताः अभवन्। राष्ट्रीय-पुरस्कार-विजेता चलचित्र-निर्माता-निर्देशकः मधुर-भण्डारकरः, अभिनेता जय भानुशाली तथा अभिनेत्री आरतीसिंह: च प्रातःकालीन-भस्म-आरार्तिक्यां सम्मिलिताः भूत्वा भगवत: महाकालस्य आशीर्वादं प्राप्तवन्तः। ते नन्दी-गृहे स्थित्वा भस्म-आरार्तिक्या: दिव्य-दर्शनं कृतवन्तः, महाकाल-भक्तौ च पूर्णतया निमग्नाः दृश्यन्ते स्म।
सोमवासरे प्रात: त्रिवादने (३ वादने) मन्दिरं प्राप्ताः एते निर्धारित-परम्परानुसारं विश्वप्रसिद्धां भस्म-आरार्तिकीन समुपासितवन्तः। वैदिक-मन्त्रोच्चारणेन, शङ्खनादेन तथा “हर-हर-महादेव” इति घोषेण सम्पन्नायां मन्दिर-परिसर: भक्तिमय-वातावरणेन परिपूर्णः आसीत्। प्रायः द्वि-होरां यावत् आरार्तिक्यां स्थित्वा ते नन्दी-देवस्य पूजन-अभिषेकं कृतवन्तः, नन्दी-कर्णे स्व-मनोकामनां च निवेदितवन्तः। ततः रजत-द्वारमार्गेण भगवते महाकालाय पुजारी-माध्यमेन जलं समर्प्य आशीर्वादं प्राप्तवन्तः। दर्शनानन्तरं श्री-महाकालेश्वर-मन्दिर-प्रबन्ध-समितेः तर्फेण अतिथीनां पारम्परिक-सम्मानं कृतम्।
मधुर-भण्डारकरः विगत-द्वि-दशकात् महाकाल-दर्शनार्थं आगच्छति इति उक्तवान्
दर्शनानन्तरं पत्रकारै: सह संवादे मधुर-भण्डारकरः उक्तवान् यत् सः विगत-द्वि-दशकात् निरन्तरं बाबा-महाकालस्य दर्शनाय उज्जयिनीं आगच्छति। सः अवदत्— “अहं विगत-२० वर्षेभ्यः महाकाल-मन्दिरं गच्छामि। प्रत्येकवारं अत्र आगत्य विशिष्टां शान्तिं सकारात्मकां च ऊर्जां अनुभवामि। अस्मिन् वारे दीर्घान्तरालानन्तरं भस्म-आरार्तिक्यां सम्मिलितुं अवसरः प्राप्तः, यत् अत्यन्तं सन्तोषदायकं आध्यात्मिक-आनन्ददायकं च आसीत्।” सः महाकाल-लोकस्य तथा मन्दिर-परिसरस्य विकास-कार्याणां प्रशंसां कृत्वा उक्तवान् यत् परिसर-निर्माणानन्तरं व्यापक-परिवर्तनं दृश्यते, श्रद्धालूनां सुविधाः च अधिकं सुव्यवस्थिताः सन्ति।
जय भानुशाली आरती-सिंह-इत्यस्या: आग्रहात् महाकाल-दर्शनाय आगतः
अभिनेता जयभानुशाली उक्तवान् यत् सः अभिनेत्री आरतीसिंह: इत्यस्या: आग्रहात् प्रथमवारं भस्म-आरार्तिक्यां सम्मिलितः। सः अवदत् यत् “आरती मम सुहृदा अस्ति। सा अवदत् यत् यः जनः महाकालस्य भस्म-आरार्तिक्या: दर्शनं करोति, तस्य जीवने सकारात्मकं परिवर्तनं भवति। तस्मात् श्रद्धया अहं अत्र आगतः। अयंअनुभवः अद्भुतः अविस्मरणीयः च अस्ति।” आरती-सिंहः अपि स्वजीवनस्य सौभाग्यरूपेण महाकाल-दर्शनं वर्णयित्वा उक्तवती यत् भस्म-आरार्तियां सहभागः आध्यात्मिक-उत्सवसमानम् अस्ति।
दिव्य-श्रृङ्गारयुक्ता भस्म-आरार्तिकी सम्पन्ना
सोमवासरे प्रातः मन्दिर-द्वार-उद्घाटनानन्तरं विधिविधानपूर्वकं भगवत: महाकालस्य पूजन-अभिषेकः कृतः। प्रथमं गर्भगृहे स्थित-देवतानां पूजनं कृत्वा जलाभिषेकः सम्पन्नः, ततः दुग्ध-दधि-घृत-मधु-शर्करा-फलरसैः निर्मितेन पञ्चामृतेन अभिषेकः कृतः। भाङ्ग-चन्दन-सिन्दूर-रत्नजडिताभरणैः भगवान् “राजा-स्वरूपे” दिव्यरूपेण अलङ्कृतः। शेषनाग-रजतमुकुटेन, रजत-मुण्डमालया, रुद्राक्ष-मालाभिः सुगन्धित-पुष्पैः च सुसज्जितः आसीत्। कर्पूर-आरार्तिक्या: पश्चात् महा-निर्वाणी-अखाडा-इत्यनेन पवित्रं भस्मम् अर्पितम्।
मान्यता अस्ति यत् भस्म-समर्पणानन्तरं भगवान् महाकालः निराकारात् साकाररूपेण भक्तान् दर्शनं ददाति। अस्मिन् दिव्य-अवसरे देशस्य विविध-प्रदेशेभ्यः आगताः सहस्रशः श्रद्धालवः भस्म-आरत्यां सम्मिल्य बाबा-महाकालस्य आशीर्वादं प्राप्तवन्तः।
महाकालेश्वर-मन्दिरम् आस्थायाः प्रमुखं केन्द्रम्
उल्लेखनीयम् अस्ति यत् उज्जयिन्याः श्री-महाकालेश्वर-मन्दिरं द्वादश-ज्योतिर्लिङ्गेषु प्रमुखस्थानं धारयति। महाकाल-लोक-निर्माणस्य विस्तारस्य च पश्चात् देश-विदेशात् आगच्छतां श्रद्धालूनां संख्या उल्लेखनीयतया वर्धिता अस्ति। राजनीतिज्ञाः, सामाजिकाः, क्रीडाजगतः, चलचित्रजगतः, उद्योगजगतः च बहवः प्रसिद्धाः व्यक्तयः समये-समये बाबा-महाकालस्य दर्शनार्थं आगच्छन्ति, यत् अस्य तीर्थस्य वर्धमान-प्रतिष्ठायाः अटूट-आस्थायाः च प्रमाणम् अस्ति।
Hindusthan Samachar / Divya Ranjan