Enter your Email Address to subscribe to our newsletters

पिथौरागढ़म्, 01 जूनमासः (हि.स.)।सीमान्तजनपदे पिथौरागढे आदि कैलाश तथा ओम पर्वत यात्रां प्रति श्रद्धालूनां पर्यटकानां च उत्साहः निरन्तरं वर्धते। यात्राकालस्य समये देशस्य विभिन्नप्रदेशेभ्यः बहुसंख्यया श्रद्धालवः पर्यटकाश्च अत्र आगच्छन्ति। अस्य अनुमानम् अनेन कर्तुं शक्यते यत् यात्रायाः आरम्भात् केवलम् एकस्मिन् मासे एव २७९११ इनरलाइन इति अनुमतिपत्राणि प्रदत्तानि सन्ति।
सोमवासरे जिलाप्रशासनेन आदि कैलाश ओम पर्वत यात्रायाः सम्बन्धिनः आंकडाः प्रकाशिताः। तैः उक्तं यत् ३१ मई २०२६ पर्यन्तं कुलम् २७९११ इनरलाइन परमिट प्रदत्तानि। जिलाप्रशासनेन यात्रायाम् आगच्छद्भ्यः श्रद्धालुभ्यः पर्यटकेभ्यश्च अपील कृता यत् ते यात्रातः पूर्वं सर्वाणि आवश्यकदस्तावेजानि स्वसमीपे धारयन्तु वातावरणसम्बद्धां सूचनां प्राप्नुयुः तथा प्रशासनस्य निर्देशानां पालनं कुर्वन्तः सुरक्षितयात्रां कुर्वन्तु।
तैः उक्तं यत् आदि कैलाश तथा ओम पर्वत यात्रा न केवलं धार्मिक आध्यात्मिकदृष्ट्या महत्त्वपूर्णा अस्ति अपितु क्षेत्रीयपर्यटनं स्थानीयार्थव्यवस्था रोजगारसृजनं च नूतनगतिं प्रददाति। अनेन सीमान्तक्षेत्राणां विकासः अपि बलं प्राप्नोति।
उल्लेखनीयम् अस्ति यत् आदि कैलाश ओम पर्वत दर्शनयात्रायाः शुभारम्भः १ मई २०२६ तमे दिने जोलीकोंग स्थिते पार्वतीकुण्डस्य समीपे स्थितस्य शिवमन्दिरस्य कपाटोद्धाटनेन अभवत्। केवलम् एकस्मिन् मासे एव एतादृशे विशालस्तरे परमिटप्रदानं यात्रां प्रति श्रद्धालूनां वर्धमानां श्रद्धां आकर्षणं च दर्शयति। गतवर्षाणां आंकडानां निरीक्षणेन ज्ञायते यत् वर्षे २०२४ तमे २९३५२ तथा वर्षे २०२५ तमे ३६५२६ इनरलाइनानुमतयः प्रदत्ताः आसन्। अतः वर्तमानवर्षस्य प्रथममासे एव प्रदत्तानां परमिटानां संख्या एतत् सूचयति यत् अस्मिन् वारे यात्रा नूतनकीर्तिमानस्य दिशि अग्रे गंतुं शक्नोति।
Hindusthan Samachar / Dheeraj Maithani