Enter your Email Address to subscribe to our newsletters

जलपाईगुड़ी (पश्चिमबंगालम्), 01 जूनमासः (हि.स.)।ग्रीष्मावकाशस्य अनन्तरं सोमवासरे पश्चिमबङ्गस्य सर्वकारीयविद्यालयाः पुनः उद्घाटिताः। राज्यसर्वकारस्य निर्देशानुसारं विद्यालयेषु दिवसस्य आरम्भः प्रार्थनासभया सह ‘वन्दे मातरम्’ इत्यस्य सामूहिकगायनेन अभवत्। अलीकाले राज्यसर्वकारेण सर्वेषु विद्यालयेषु प्रार्थनासभायां ‘वन्दे मातरम्’ गानम् अनिवार्यं करणीयम् इति निर्देशः निर्गतः आसीत्।
जलपाईगुडीप्रदेशस्य सोनाउल्ला प्राइमरी विद्यालये छात्राः छात्र्यश्च प्रातःकाले विद्यालयप्राङ्गणे पङ्क्तिबद्धाः भूत्वा एकस्वरेण ‘वन्दे मातरम्’ गायतः दृष्टाः। ततः प्रार्थना सम्पन्ना अभवत् तथा नियमितकक्षाणां सञ्चालनम् आरब्धम्। एतादृशमेव दृश्यं राज्यस्य अन्येषु सर्वकारीयविद्यालयेष्वपि दृष्टम्। अस्मिन् नूतनपरिवर्तने विषये छात्रेष्वपि विशेषः उत्साहः दृष्टः।
विद्यार्थिभिः सह अभिभावकाः, शिक्षकाः तथा शिक्षाकर्मिणोऽपि देशात्मबोधस्य अनुभूतिं जनयन्तीं एतां नूतनां प्रारम्भपरम्परां स्वागतवन्तः। राज्यसर्वकारस्य कथनम् अस्ति यत् अस्याः पहलायाः उद्देश्यः विद्यार्थिषु राष्ट्रियैक्यस्य देशभक्तेः च भावनां प्रोत्साहयितुम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani