(लीड) पश्चिम बंगाले मंत्रिमंडल विस्तारः, 35 मंत्रिणोऽगृह्णन् शपथवचनम्
कोलकाता, 01 जूनमासः (हि.स.)। पश्चिमबङ्गालस्य नवनिर्वाचितभारतीयजनतापार्टीत्यनेन दलेन शासनस्य मन्त्रिमण्डलस्य सोमवासरे प्रथमः महत्त्वपूर्णः विस्तारः कृतः। लोकभवने आयोजिते भव्यशपथग्रहणसमारोहे राज्यपालः आर.एन. रवि इत्यनेन ३५ नूतनमन्त्रिणः पदगोपनीयताय
मंत्रीमंडल का शपथ ग्रहण


कोलकाता, 01 जूनमासः (हि.स.)। पश्चिमबङ्गालस्य नवनिर्वाचितभारतीयजनतापार्टीत्यनेन दलेन शासनस्य मन्त्रिमण्डलस्य सोमवासरे प्रथमः महत्त्वपूर्णः विस्तारः कृतः। लोकभवने आयोजिते भव्यशपथग्रहणसमारोहे राज्यपालः आर.एन. रवि इत्यनेन ३५ नूतनमन्त्रिणः पदगोपनीयतायाः शपथवचनं प्रदत्तम्।

मन्त्रिमण्डलविस्तारे १३ नेतारः कैबिनेटमन्त्रिणः रूपेण, त्रयः नेतारः स्वतन्त्रप्रभारयुक्तराज्यमन्त्रिणः रूपेण तथा १९ नेतारः राज्यमन्त्रिणः रूपेण नियुक्ताः। अनेन सह मुख्यमन्त्रिणः शुभेन्दु अधिकारी इत्यस्य नेतृत्वयुक्तायां शासनव्यवस्थायां मन्त्रिणां कुलसङ्ख्या ४१ पर्यन्तं वर्धिता। समारोहे वन्दे मातरम् तथा राष्ट्रगानेन सह आरम्भः कृतः।

एते १३ नेतारः कैबिनेटमन्त्रिणः रूपेण नियुक्ताः—

१. दीपक बर्मन्२. तापस रायः३. डॉ. शङ्कर घोषः४. मनोज कुमार उरांवः५. अर्जुन सिंहः६. गौरी शङ्कर घोषः७. स्वपन दासगुप्तः८. जगन्नाथ चट्टोपाध्यायः९. कल्याण चक्रवर्ती१०. अजय पोद्दारः११. शारद्वत मुखर्जिः१२. दुध कुमार मण्डलः१३. अनुप कुमार दासः

स्वतन्त्रप्रभारयुक्तराज्यमन्त्रिणः

त्रयः विधायकाः राज्यमन्त्री (स्वतन्त्रप्रभारयुक्तः) इति दायित्वं प्राप्तवन्तः। ते सन्ति—

१. डॉ. इन्द्रनील खानः२. मालती रावा रायः३. राजेश महतो

राज्यमन्त्रिणः

समारोहे १९ विधायकाः राज्यमन्त्रिरूपेण शपथं गृहीतवन्तः। ते सन्ति १. जुएल मुर्मूः२. हरे कृष्ण बेरा३. आनन्दमय बर्मन्४. अशोक डिण्डा५. नदियार चांद बाउड़ी६. विशाल लामा७. शान्तनु प्रमाणिकः८. मौमिता विश्वास मिश्रा९. उमेश रायः१०. पूर्णिमा चक्रवर्ती११. कौशिक चौधरी१२. भास्कर भट्टाचार्यः१३. दिवाकर घरामी१४. अमिया किस्कूः१५. कलिता माझिः१६. गर्गी दास घोषः१७. विराज विश्वासः१८. दीपंकर जाना१९. सुमना सरकारः

शपथग्रहणसमारोहे अधिकांशनेतारः पारम्परिकबङ्गालीवेशभूषायां धोती-कुर्ताधारणेन उपस्थिताः। अनेकाः नवनियुक्तमन्त्रिणः स्वपरिवारस्य सदस्यैः सह समारोहे सहभागित्वम् अकुर्वन्। कार्यक्रमे मुख्यमन्त्रिणः शुभेन्दु अधिकारिणः अतिरिक्तं केन्द्रीयमन्त्री सुकान्त मजूमदार, प्रदेशभाजपाध्यक्षः शमिक भट्टाचार्य तथा मन्त्री अग्निमित्रा पाल इत्यादयः दलस्य वरिष्ठनेतारः उपस्थिताः आसन्।

मन्त्रिमण्डलविस्तारे संगठनात्मकसन्तुलनं, क्षेत्रीयप्रतिनिधित्वं तथा विविधसामाजिकवर्गाणां प्राथमिकता दातुं प्रयासः कृतः। उत्तरबङ्गालप्रदेशस्य विधायकेभ्यः अधिकं स्थानं प्रदत्तम्।

सूत्राणां अनुसारं विभागानां अन्तिमविनियोजनं शीघ्रमेव क्रियिष्यते। शपथग्रहणानन्तरं सर्वे मन्त्रिणः नवान्नम् अगच्छन्, यत्र मुख्यमन्त्रिणः अध्यक्षतायां महत्त्वपूर्णा सभा आयोजिताभूत्।

अस्मात् पूर्वं ०९ मई दिनाङ्के ब्रिगेड् परेड ग्राउण्ड इत्यस्मिन् क्रीडांगणे शुभेन्दु अधिकारी मुख्यमन्त्रिपदस्य शपथं गृहीतवान् आसीत्। तेन सह पञ्च मन्त्रिणः यत् अग्निमित्रा पॉलः, दिलीप घोषः, खुदीराम टुडूः, निशिथ प्रमाणिकः तथा अशोक कीर्तनीयः — अपि शपथग्रहणं कृतवन्तः।

------------------

Hindusthan Samachar / Dheeraj Maithani