Enter your Email Address to subscribe to our newsletters

कोलकाता, 01 जूनमासः (हि.स.)। पश्चिमबङ्गसर्वकारेण सोमवासरात् आरभ्य राज्यव्यापिन्यः महिलानां कृते सर्वकारीयबसयानेषु निःशुल्कयात्रासुविधा प्रवर्तिता। सर्वकारस्य घोषणानुसारम् अधुना महिलायात्रिकाभ्यः सर्वकारीयबसयानेषु यात्रार्थं किमपि शुल्कं दातव्यं न भविष्यति। बसयानम् आरुह्य ताभ्यः “शून्यशुल्क” इति लिखितं यात्रापत्रं प्रदीयते। एषा सुविधा राज्यस्य सर्वेषु क्षेत्रेषु उपलब्धा अस्ति तथा सामान्यमार्गेषु सह दीर्घदूरबसयानेष्वपि प्रवर्तिता अस्ति।
योजनायाः लाभं प्राप्तुं महिलायात्रिकाभिः परिचयसम्बद्धप्रपत्रं दर्शनीयं भविष्यति। परिवहनविभागेन निर्गतानां निर्देशानुसारम् आधारपत्रम्, मतदातृपरिचयपत्रं, मनरेगाकार्यपत्रम्, आयुष्मानभारतपत्रं, वाहनचालनानुज्ञापत्रं, पैनकार्ड, पारपत्रं, छायाचित्रयुक्तं निवृत्तिवेतनदस्तावेजम्, राज्यसर्वकारस्य अथवा केन्द्रसर्वकारस्य कर्मचारीपरिचयपत्रम्, विद्यालयमहाविद्यालयविश्वविद्यालयानां परिचयपत्रम् इत्यादिषु सर्वकारनिर्गतेषु वैधपरिचयपत्रेषु कस्यचित् एकस्य प्रदर्शनद्वारा निःशुल्कयात्रापत्रं प्राप्तुं शक्यते।
सोमवासरस्य प्रातःकालात् आरभ्य राज्यपरिवहननिगमस्य अन्येषां च सर्वकारीयबसयानानां मध्ये अस्य विषये सूचनापत्राणि स्थापितानि सन्ति। बसयानपरिचालकानां चालकानां च विशेषप्रशिक्षणमपि प्रदत्तम्, यतः ते महिलायात्रिकाभ्यः शून्यशुल्कयात्रापत्रप्रदानप्रक्रियायाः सम्यक् पालनं कर्तुं शक्नुयुः।
मुख्यमन्त्री शुभेन्दुअधिकारी उक्तवान् यत् वर्तमानकाले महिलाभ्यः बसयानम् आरुह्य एव निःशुल्कयात्रापत्रं प्रदास्यते। भविष्ये योजनायाः दुरुपयोगनिवारणार्थं महिलायात्रिकाणां कृते विशेषपरिचयपत्रप्रदानव्यवस्था क्रियिष्यते। अधुना तु अस्य विशेषपरिचयपत्रस्य प्रवर्तनसमयसीमा न घोषिताऽस्ति।
यात्रां कुर्वतीषु महिलायात्रिकासु उत्साहः दृष्टः। अनेकाभिः महिलाभिः उक्तं यत् प्रतिदिनं कार्यार्थं तथा रोजगारार्थं बसयानेन यात्रा कर्तव्या भवति, अतः यात्राशुल्कस्य बचतेः कारणेन ताभ्यः आर्थिकराहतिः भविष्यति।
मुख्यमन्त्री शुभेन्दुअधिकारी एक्समाध्यमे अपि अस्याः योजनायाः प्रारम्भस्य सूचना प्रदत्तवान्। तेन उक्तं यत् राज्यसर्वकारः महिलानां सुरक्षा, सामाजिकप्रगति, आत्मनिर्भरता तथा अधिकारसुदृढीकरणाय प्रतिबद्धः अस्ति तथा निर्वाचनप्रतिज्ञानुसारं महिलानां कृते सर्वकारीयबसयानेषु निःशुल्कयात्रासुविधा प्रवर्तिता अस्ति।
Hindusthan Samachar / Dheeraj Maithani