Enter your Email Address to subscribe to our newsletters

हिसारः, 10 जूनमासः (हि.स.)।
बिजली वितरण निगम डीएचबीवीएन एवं उत्तर हरियाणा बिजली वितरण निगम यूएचबीवीएन इत्यस्य प्रबंध निदेशको विक्रम सिंहः उपभोक्तृभ्यः ऊर्जा संरक्षणं स्वस्य दैनिकजीवनशैल्याः अङ्गं कर्तुम् आह्वानं कृतवान्। तेन उक्तं यत् लघुलघुसावधानताः अवलम्ब्य न केवलं विद्युत् शुल्के उल्लेखनीयः क्षयः कर्तुं शक्यते अपितु पर्यावरणसंरक्षणे अपि महत्त्वपूर्णं योगदानं दातुं शक्यते।
प्रबंध निदेशक विक्रम सिंहेन बुधवासरे विद्युत् वितरण निगमाभ्यां प्रकाशिते जागरूकतासन्देशे उपभोक्तृभ्यः ऊर्जा दक्ष एलईडी दीपानां प्रयोगं कर्तुं अनावश्यकतया प्रवर्तमानान् वैद्युतिक उपकरणान् निरोद्धुं तथा च अनुपयोगकाले चार्जरादीनां अन्येषां च इलेक्ट्रॉनिक उपकरणानां प्लगान् निष्कासयितुं परामर्शः दत्तः। तेन सह ऊर्जा दक्ष उपकरणानां प्राधान्यं दातुं भवनानां छदीनां भित्तीनां च सम्यक् उष्णावरोधनं कारयितुं तथा च सौरऊर्जायाः स्वीकरणे विशेषतः बलं दत्तम्।
प्रबंध निदेशकेन उक्तं यत् ऊर्जा संरक्षणं केवलम् आर्थिकरक्षणस्य साधनं नास्ति अपितु आगामिनीनां संततीनां कृते प्राकृतिकसंसाधनानां संरक्षणस्य स्वच्छपर्यावरणस्य च सुनिश्चितीकरणस्य दिशि अपि महत्त्वपूर्णः उपायः अस्ति। तेन डीएचबीवीएन एवं यूएचबीवीएन इत्येतयोः सर्वेभ्यः उपभोक्तृभ्यः विद्युतः विवेकपूर्णं उपयोगं कर्तुं तथा च ऊर्जा संरक्षण अभियाने सक्रियां भागितां निर्वोढुमाह्वानं कृतवान्।
Hindusthan Samachar / Dheeraj Maithani