मोदी-सर्वकारस्य द्वादशवर्षीयः कार्यकालः जनविश्वासस्य प्रतीकः - मङ्गल-पाण्डेयः
सीवाननगरम्, १० जूनमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे केन्द्र-सर्वकारस्य द्वादशवर्षीय-कार्यकालस्य पूर्णतायाः उपलक्ष्ये सञ्चाल्यमानस्य ‘१२ वर्षाणि बेमिसाल’ अभियानस्य अन्तर्गतं बुधवासरे प्रातःकाले बिहार-सर्वकारस्य भूतपूर्वः मन्त्री तथ
पूजा अर्चना करते पूर्व मंत्री मंगल पांडे


सीवाननगरम्, १० जूनमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे केन्द्र-सर्वकारस्य द्वादशवर्षीय-कार्यकालस्य पूर्णतायाः उपलक्ष्ये सञ्चाल्यमानस्य ‘१२ वर्षाणि बेमिसाल’ अभियानस्य अन्तर्गतं बुधवासरे प्रातःकाले बिहार-सर्वकारस्य भूतपूर्वः मन्त्री तथा सीवान-सदर-विधानसभा-क्षेत्रस्य विधायकः मङ्गल-पाण्डेयः कचहरी-मार्गस्थितं दुर्गा-मन्दिरं गत्वा विधिवत् दुर्गा-मातुः पूजनम् अर्चनां च कृतवान् तथा प्रदेशस्य देशस्य च सुख-समृद्ध्यर्थं प्रार्थनाम् अकरोत्।

अस्मिन् अवसरे आयोजिते कार्यक्रमे क्षेत्रस्य गणमान्य-नागरिकाः, भारतीय-जनता-पक्षस्य पदाधिकारिणः, कार्यकर्तारः तथा बहुसंख्यकाः श्रद्धालवः उपस्थिताः आसन्। पूजनानन्तरं उपस्थितान् सम्बोधयन् मङ्गल-पाण्डेयः अवदत् यत् प्रधानमन्त्री-नरेन्द्रमोदिनः कार्यकालः जनसेवायै, सुशासनाय तथा विकासाय समर्पितः अस्ति।

तेन एषः कार्यकालः देशस्य इतिहासे “स्वर्णिम-कार्यकालः” इति वर्णितः। सः उक्तवान् यत् एतस्मादेव कारणात् देशस्य जनतया निरन्तरं नरेन्द्रमोदिनः तथा राष्ट्रिय-जनतान्त्रिक-गठबन्धनस्य (राजग) समर्थनम् आशीर्वादश्च प्रदत्तः। तेन उक्तं यत् अद्य देशस्य एकविंशत्यधिकेषु राज्येषु जनतया राजगाय शासनस्य सेवायाश्च अवसरः प्रदत्तः अस्ति।

पश्चिम-बङ्गाल-राज्यस्य उल्लेखं कुर्वन् सः अवदत् यत् तत्रापि प्रधानमन्त्री-मोदीं प्रति जनविश्वासः जन-आस्था च निरन्तरं वर्धते। जनानां मध्ये एषा धारणा दृढा जाता यत् नरेन्द्रमोदिनः नेतृत्वे एव विकासस्य प्रगतेश्च मार्गः प्रशस्तं भवितुम् अर्हति।

मङ्गल-पाण्डेयः अवदत् यत् जनतायाः व्यापक-समर्थनस्य विश्वासस्य च बलेन प्रधानमन्त्री-नरेन्द्रमोदी दीर्घं सफलं च कार्यकालं पूर्णीकृतवान्। सः विश्वासं व्यक्तवान् यत् अग्रिमेषु वर्षेष्वपि मोदी-महोदयः देशस्य सेवां निरन्तरं करिष्यति तथा भारतं विकासस्य, आत्मनिर्भरतायाः तथा वैश्विक-नेतृत्वस्य नूतनान् आयामान् स्थापयिष्यति।

अस्मिन् कार्यक्रमे भूतपूर्व-जनपदाध्यक्षः संजयकुमार-पाण्डेयः, अमितकुमार-सिंहः, आदित्य-पाठकः, लिसा-लाल-महोदया, राजेश-श्रीवास्तवः इत्यादयः पक्षस्य अनेके पदाधिकारिणः, कार्यकर्तारः तथा स्थानीय-नागरिकाः उपस्थिताः आसन्। श्रद्धालुभिः दुर्गा-मातुः जयघोषैः सह कार्यक्रमः सफलतया सम्पन्नः।

Hindusthan Samachar / Divya Ranjan