भारतीयजनतापक्षेण नरेन्द्रमोदिनः प्रधानमन्त्रीरूपेण निरन्तरं दीर्घतमकालपर्यन्तं सेवां प्रदत्तवान् इति उपलक्ष्ये अभिनन्दनं प्रदत्तम्
नवदेहली, १० जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी भारतस्य इतिहासे सर्वाधिककालं निरन्तरं पदे स्थितः निर्वाचितः प्रधानमन्त्री जातः। बुधवासरे तस्य कार्यकालस्य ४,३९९ दिवसाः पूर्णाः अभवन्, येन सः पूर्वप्रधानमन्त्रिणः जवाहरलालनेहरोः ४,३९८ दिवसानां
भाजपा अध्यक्ष नितिन नवीन द्वारा साझा किया गया पोस्ट की तस्वीर


नवदेहली, १० जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी भारतस्य इतिहासे सर्वाधिककालं निरन्तरं पदे स्थितः निर्वाचितः प्रधानमन्त्री जातः। बुधवासरे तस्य कार्यकालस्य ४,३९९ दिवसाः पूर्णाः अभवन्, येन सः पूर्वप्रधानमन्त्रिणः जवाहरलालनेहरोः ४,३९८ दिवसानां पूर्वं स्थितं कीर्तिम् अतिक्रान्तवान्। अस्य उपलब्धेः कृते भारतीयजनतापक्षेण तस्मै अभिनन्दनं प्रदत्तम्।

अस्मिन्नेव दिने भाजपा-अध्यक्षः नितिन-नवीनः प्रधानमन्त्रीनरेन्द्रमोदिनः उपलब्धीः वर्णयन् उक्तवान् यत् भारतीयलोकतान्त्रिक-इतिहासे अद्य नवीनं स्वर्णिमं अध्यायं योजितम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी देशस्य सर्वाधिककालं निरन्तरं सेवां कुर्वन् निर्वाचितः प्रधानमन्त्री जातः। ४,३९९ दिवसानां सततसेवा राष्ट्राय तस्य अद्वितीयसमर्पणस्य प्रतीकम् अस्ति।

सः अवदत् यत् प्रधानमन्त्री नेतृत्वे केन्द्रसर्वकारेण विश्वासः, विकासः, जनकल्याणं च प्रति समर्पितः स्वस्य द्वादशवर्षीयः कार्यकालः पूर्णः कृतः। ‘संकल्पात् सिद्धिः’ इति गौरवपूर्णः कालखण्डः भारतस्य विकासे, सुरक्षायां, आर्थिक-सशक्तीकरणे, वैश्विक-प्रतिष्ठायां च अभूतपूर्ववृद्धेः साक्षी जातः।

नवीनः उक्तवान् यत् प्रधानमन्त्रीनरेन्द्रमोदिनः नेतृत्वे देशेन बहूनि ऐतिहासिक-परिवर्तनानि दृष्टानि— वित्तीयसमावेशनम्, डिजिटलक्रान्तिः, ‘एकं राष्ट्रम् एकः करः’ इति व्यवस्था च यया पारदर्शक-उत्तरदायि-शासनं सुदृढीकृतम्। रक्षाक्षेत्रे आत्मनिर्भरता, विनिर्माण-प्रोत्साहनम्, आधुनिक-अवसंरचनायाः विस्तारः च विकासयात्रां वेगेन अग्रे नीतवान्।

एवं च श्रीरामजन्मभूमि-मन्दिरस्य भव्यनिर्माणम्, अनुच्छेदः ३७० इत्यस्य निरसनम्, तथा अन्ये दूरगामी निर्णयाः देशस्य आकाङ्क्षाः साकारयितुं महत्त्वपूर्णाः मीलस्तम्भाः जाताः।

भाजपा-अध्यक्षः अवदत् यत् अद्य राष्ट्रस्य प्रत्येकं नागरिकः प्रधानमन्त्रीनरेन्द्रमोदिनः नेतृत्वे ‘विकसितभारत-२०४७’ इत्यस्य स्वप्नस्य पूर्तये सामूहिकसंकल्पेन अग्रे गच्छति।

Hindusthan Samachar / Divya Ranjan