Enter your Email Address to subscribe to our newsletters


रायपुरनगरम्, १० जूनमासः (हि.स.)। छत्तीसगढस्य गरियाबन्द-जनपदस्य मैनपुर-खण्डान्तर्गतस्य राजापडाव-क्षेत्रस्य अष्टसु पञ्चायतेषु स्थितानां ४८ ग्रामाणां शतशः ग्रामवासिनः स्वसमस्यानां विषये बुधवासरे स्वस्य रक्तेन प्रधानमन्त्रिणे नरेन्द्रमोदिने ५०० अधिकानि पत्राणि अलिखन्। एतानि सर्वाणि पत्राणि स्पीड-पोस्ट-माध्यमेन प्रत्यक्षतया प्रधानमन्त्रिकार्यालयं तथा राष्ट्रीयव्याघ्रसंरक्षणप्राधिकरणं प्रति प्रेषितानि।
ग्रामवासिनः आरोपयन्ति यत् पुनः पुनः निवेदनं कृत्वापि स्थानीयप्रशासनं जनप्रतिनिधयश्च तेषां समस्यासु ध्यानं न दत्तवन्तः। जनपद-प्रशासनस्य जनसमस्या-निवारण-शिविरेषु अपि तेषां वचनं न श्रुतम्। अतः ते अत्यन्तं निराशाः क्रुद्धाश्च भूत्वा एतादृशं पदम् अगृह्णन्।
अयं सम्पूर्णः विषयः उदन्ती-सीतानदी-व्याघ्र-अभयारण्यस्य बफर-क्षेत्रे स्थितस्य राजापडाव-प्रदेशस्य अस्ति। बुधवासरे प्रातःकाले कोकडी, गरहाडीह, गौरग्राम, भूतबेडा, कुचेंगा इत्यादीनां ग्रामाणां तथा ४८ ग्रामाणां पारा-टोल-इत्यादीनां च शतशः ग्रामवासिनः ‘जय-अम्बेडकरवादी-युवा-सङ्घटनम्’ तथा ‘कृषक-संघर्ष-समितिः राजापडाव-क्षेत्रम्’ इत्येतयोः ध्वजयोः अधः अडगडी-गौठाने समागताः। ग्रामवासिनः अवदन् यत् गतदशवर्षेभ्यः ते निरन्तरं विद्युत्सुविधां, पक्क्वमार्गान्, सेतून्, शिक्षासुविधां, स्वास्थ्यसेवां तथा शुद्धपेयजलस्य व्यवस्थां याचन्ते।
ग्रामवासिनां कथनानुसारं तेषां याचनासु अधिकारिणः वन्यजीव-नियमस्य तथा राष्ट्रीयव्याघ्रसंरक्षणप्राधिकरणस्य अनापत्ति-प्रमाणपत्रस्य आवश्यकता अस्तीत्युक्त्वा सञ्चिकां निरर्थकतया स्थगयन्ति।
सरपञ्चाः चिमन-नेतामः, रामदेव-मरकामः तथा साधुराम-नेतामः अवदन् यत् अस्मिन् विषये ते जनपद-प्रशासनं सूचितवन्तः तथा रक्तग्रहणार्थं स्वास्थ्यविभागात् चिकित्सकीयसहायतां याचितवन्तः, किन्तु प्रशासनात् कापि सहायता न प्रेषिता। ततः ग्रामवासिनः सुरक्षामानकानां पालनं कृत्वा प्रत्येकस्य कृते नूतनाम् एकवारोपयोगिनीं सिरिञ्ज-उपकरणं प्रयुक्तवन्तः। ते स्वस्य रक्तं निष्कास्य तेन पत्राणि लिखितवन्तः।
ग्रामवासिनः अवदन् यत् २०२६ तमस्य वर्षस्य जनवरी-मासे गरियाबन्द-जनपद-प्रशासनेन लिखितरूपेण आश्वासनं दत्तम् आसीत् यत् अग्रिमेषु षट्सु मासेषु ग्रामेषु विद्युतीकरणकार्यं सम्पूर्णतया सम्पन्नं भविष्यति। किन्तु जून-मासस्य अर्धभागः व्यतीतः सन् अपि भूमौ एकोऽपि विद्युत्स्तम्भः न स्थापितः।
जिला-पञ्चायत-सदस्यः संजय-नेतामः एतां स्थितिं अत्यन्तं दुःखदाम् अवदत्। ग्रामवासिनां मते दीर्घकालिक-संघर्षानन्तरं केवलं त्रिषु ग्रामपञ्चायतेषु मुख्यग्रामपर्यन्तं विद्युत्तारकाणि प्राप्तानि, किन्तु आश्रिताः पारा-टोल-इत्यादयः अद्यापि अन्धकारे सन्ति। अपराः पञ्च ग्रामपञ्चायताः तादृशाः सन्ति यत्र अद्यावधि विद्युत्प्रदीपस्य प्रकाशोऽपि न दृश्यते।
ग्रामवासिनः अवदन्— “वयं न सर्वकारस्य विरोधं कुर्मः, न च राजनीतिं कुर्मः। वयं २००६ तमवर्षात् आरभ्य अद्यपर्यन्तं सामान्यमस्यया सहस्रशः आवेदनपत्राणि मन्त्रिभ्यः अधिकारिभ्यश्च लिखितवन्तः। तीव्रग्रीष्मे शीतकाले च बहूनि धरना-प्रदर्शनानि कृतवन्तः, किन्तु काचिदपि कार्यवाही न अभवत्। अतः अद्य प्रधानमन्त्रिणः समीपे एषा प्रार्थना कर्तव्या अभवत्।”
गरियाबन्द-जनपदस्य राजापडाव-प्रदेशः सघनवनैः पर्वतैश्च परिवृतः जनजाति-बहुलः प्रदेशः अस्ति। अस्य क्षेत्रस्य अष्टसु ग्रामपञ्चायतेषु अन्तर्भुक्तेषु ४८ ग्रामेषु तथा आश्रितेषु पारा-टोल-इत्यादिषु निवसन्तः जनाः दशकेभ्यः मूलभूतसुविधानां कृते प्रतीक्षां कुर्वन्ति।
अस्य विषये अधिकारिणः वदन्ति यत् वनविभागेन सह समन्वयं स्थापयित्वा विद्युत्परियोजनायाः बाधाः दूरीकर्तुं प्रयत्नाः क्रियन्ते।
Hindusthan Samachar / Divya Ranjan