Enter your Email Address to subscribe to our newsletters


रायपुरनगरम्, १० जूनमासः (हि.स.)। विकसितभारत-रोजगार-आजीविका-निश्चितता-अभियान विधेयक-२०२५ इत्यस्य प्रभावी-कार्यान्वयनार्थं तथा प्रशिक्षण-व्यवस्थायाः सुदृढीकरणार्थं रायपुरस्थिते ठाकुरप्यारेलाल-राज्य-पञ्चायत-ग्रामीण-विकास-संस्थाने द्विदिवसीयः प्रशिक्षक-प्रशिक्षण-कार्यक्रमः आयोजितः।
अस्मिन् प्रशिक्षण-कार्यक्रमे विभिन्न-जनपदेभ्यः आगताः सहायक-कार्यक्रम-अधिकारिणः सहभागिनः अभवन्। तेषां समक्षं अभियानस्य प्रावधानानि, सम्भावनाः तथा कार्यान्वयन-प्रक्रिया सांकेतिक-प्रस्तुतिकरणस्य माध्यमेन निरूपिता। तेषां सम्बन्धिनः विचाराः अपि संगृहीताः। सहभागिभिः स्वानुभवाः प्रस्तुताः तथा योजनायाः भूमिस्तरे अधिक-प्रभावी-कार्यान्वयनार्थं उपयोगिनः विचाराः दत्ताः।
समापन-कार्यक्रमे बुधवासरे मनरेगा-आयुक्तः तथा प्रधानमन्त्री-आवास-योजना इत्यस्य सञ्चालकः तारणप्रकाशसिन्हा सहभागिनां प्रस्तुतिकरणानाम् अवलोकनं कृतवान्। सः अभियानस्य उद्देश्यानि ग्रामीण-क्षेत्रेषु प्रभावी-रीत्या प्रसारयितुं प्रशिक्षणस्य महत्त्वपूर्णां भूमिकां प्रतिपादितवान्।
प्रशिक्षणस्य अन्तर्गतं अभियानस्य विविध-प्रावधानानां, कार्यप्रणाल्याः तथा ग्रामीण-आजीविका-संवर्धनसम्बद्धानां विषयाणां विषये विस्तृत-सूचना प्रदत्ता।
अस्मिन् अवसरे प्रशिक्षणस्य नोडल-अधिकारी रामधनश्रीवासः, मास्टर-प्रशिक्षकौ डॉ.यशवन्तचन्द्राकरः तथा डॉ.आनन्दरघुवंशी, अन्ये अधिकारिणः प्रशिक्षार्थिनश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan