Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 10 जूनमासः (हि.स)।
पश्चिम एशियाक्षेत्रस्य सङ्कटस्य मध्ये आपत्कालीन ऋणप्रतिभूति योजना ईसीएलजीएस पञ्च दशमांशेन एकां महत्त्वपूर्णां उपलब्धिं प्राप्तवती। अस्याः अन्तर्गतं निर्गतप्रतिभूतीनां सङ्ख्या एकमासस्य अन्तः एकलक्षाधिकां जाता यसां समग्रराशिः अष्टचत्वारिंशत् सहस्रचतुःशत् चतुरशीतिकोटिरूप्यकाणि अभवन्।
वित्तमन्त्रालयेन बुधवासरे प्रकाशिते वक्तव्ये उक्तं यत् नव जून द्विसहस्र षड्विंशतितमवर्षपर्यन्तम् आपत्कालीन ऋणप्रतिभूति योजनायाः अन्तर्गतं कुलम् एकलक्ष षट्सहस्र पञ्चशत नवचत्वारिंशत् प्रतिभूतयः निर्गताः सन्ति, यसां समग्रराशिः अष्टचत्वारिंशत् सहस्रचतुःशत् चतुरशीतिकोटि षड्विंशति लक्षरूप्यकाणि अस्ति। एतत् ऋणदातृभ्यः प्रदीयमानस्य ऋणसंरक्षणस्य विस्तृतस्तरं प्रदर्शयति।
मन्त्रालयेन उक्तं यत् ईसीएलजीएस पञ्च दशमांशस्य अनुमोदनं पञ्च मई द्विसहस्र षड्विंशतितमे वर्षे केन्द्रीयमन्त्रिमण्डलेन प्रदत्तम्। अस्याः योजनायाः उद्देश्यं पश्चिम एशियायां प्रवर्तमानात् सङ्कटात् उत्पन्नानां धनप्रवाहसम्बद्धानां कठिनतानां निवारणाय वर्तमानऋणग्रहणकर्तृभ्यः द्विलक्ष पञ्चपञ्चाशत् सहस्रकोटिरूप्यकपर्यन्तं अतिरिक्तं ऋणं उपलब्धं कारयितुम् अस्ति।
वित्तमन्त्रालयेन उक्तं यत् अस्याः योजनायाः समग्रप्रतिभूतिषु सङ्ख्यादृष्ट्या षण्णवतिप्रतिशतं तथा राशिदृष्ट्या षडशीतिप्रतिशतं भागः सूक्ष्म लघु मध्यम उद्यमक्षेत्रेण सम्बद्धः अस्ति। एतदतिरिक्तं सार्वजनिकक्षेत्रीयाणां वित्तकोषाणां महती सहभागिता अस्याः योजनायाः शीघ्रक्रियान्वयने सहायिका अभवत्। अस्याः समग्रप्रतिभूतिषु एतेषां वित्तकोषाणां सहभागिता षण्णवतिप्रतिशतं अस्ति।
मन्त्रालयेन सूचितं यत् सूक्ष्म लघु मध्यम उद्यमक्षेत्राय शतप्रतिशतं तथा असूक्ष्मलघुमध्यम उद्यमक्षेत्राय नवतिप्रतिशतं प्रतिभूति संरक्षणं प्रदानेन वित्तीयसंस्थाः अधिकं ऋणप्रदानाय प्रोत्साहिताः अभवन्, येन आवश्यकक्षेत्रेषु धनप्रवाहः सुनिश्चितः भवति।
एषा उपलब्धिः ऋणप्रदानाय अनुकूलं वातावरणं निर्मातुं प्रति शासनस्य प्रतिबद्धतां प्रदर्शयति। यथा यथा ईसीएलजीएस पञ्च दशमांशे परिवर्तनानि भवन्ति तथा तथा सा व्यवसायेषु वित्तीयस्थैर्यस्य सुनिश्चितीकरणाय एकं महत्त्वपूर्णं साधनं भूत्वा स्थितवती अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani