सूक्ष्म वित्त संस्थानेभ्यः क्रेडिट गारंटी योजना-2.0 इत्यस्य समय सीमा 31 अगस्त यावत् वर्धिता
नव दिल्ली, 10 जूनमासः (हि.स)। केन्द्रीयशासनेन सूक्ष्मवित्तसंस्थानानां कृते ऋणप्रतिभूति योजना द्वितीयसंस्करणस्य वैधतां एकत्रिंशत् अगस्तपर्यन्तं अथवा विंशतिसहस्रकोटिरूप्यकपरिमितप्रतिभूतेः निर्गमनपर्यन्तं विस्तारितुं स्वीकृतिः प्रदत्ता। वित्तमन्त्र
ऋण गारंटी योजना के लोगो का प्रतीकात्मक चित्र


नव दिल्ली, 10 जूनमासः (हि.स)।

केन्द्रीयशासनेन सूक्ष्मवित्तसंस्थानानां कृते ऋणप्रतिभूति योजना द्वितीयसंस्करणस्य वैधतां एकत्रिंशत् अगस्तपर्यन्तं अथवा विंशतिसहस्रकोटिरूप्यकपरिमितप्रतिभूतेः निर्गमनपर्यन्तं विस्तारितुं स्वीकृतिः प्रदत्ता।

वित्तमन्त्रालयस्य अनुसारं केन्द्रीयशासनेन अधिकतमऋणराशिं त्रिशतकोटिरूप्यकेभ्यः वर्धयित्वा सहस्रकोटिरूप्यकपर्यन्तं कर्तुमपि अनुमतिः प्रदत्ता, या प्रबन्धाधीनसम्पत्तेः विंशतिप्रतिशतात्मकस्य समग्राधिकतमसीमायाः अन्तर्गतं भवति। अधुना पर्यन्तं अस्याः योजनायाः अन्तर्गतं कुलं सप्तशतसप्ततिः कोटिरूप्यकपरिमिताः ऋणराशयः अनुमोदिताः सन्ति।

अस्याः योजनायाः उद्देश्यं राष्ट्रियऋणप्रतिभूतिन्याससंस्था लिमिटेड इत्यस्य माध्यमेन ऋणप्रतिभूति समर्थनं प्रदाय सूक्ष्मवित्तसंस्थानानां ऋणप्रदानक्षमतां सुदृढां कर्तुं तथा च अबैङ्कीयवित्तीयसंस्था सूक्ष्मवित्तसंस्थानानां कृते विंशतिसहस्रकोटिरूप्यकपर्यन्तं ऋणस्य सुलभोपलब्धिं सुनिश्चितीकर्तुम् अस्ति।

अस्याः वैधतायाः विस्तारः तथा च विशालाकाराणाम् अबैङ्कीयवित्तीयसंस्था सूक्ष्मवित्तसंस्थानानां कृते निर्धारितायाः अधिकतमऋणराशेः वृद्धिः सूक्ष्मवित्तक्षेत्रे ऋणप्रवाहस्य वृद्धिं जनयिष्यति इति अपेक्षा अस्ति।

केन्द्रीयशासनेन विंशतितमे मार्चमासे सीजीएसएमएफआई द्वितीयसंस्करण योजना प्रवर्तिता। अस्याः योजनायाः उद्देश्यं राष्ट्रियऋणप्रतिभूतिन्याससंस्था लिमिटेड इत्यस्य माध्यमेन वित्तकोषेभ्यः वित्तीयसंस्थाभ्यश्च अबैङ्कीयवित्तीयसंस्था सूक्ष्मवित्तसंस्थानैः तथा सूक्ष्मवित्तसंस्थानैः लघुऋणग्रहणकर्तृभ्यः प्रदत्तेषु ऋणेषु सम्भावितहानिविरुद्धं प्रतिभूतिं प्रदातुम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani