ब्रिक्स-कृषि-सम्मेलनस्य द्वितीयदिने इन्दौरनगरे विदेशीयप्रतिनिधिभिः राजवाड़ायां हेरिटेज-भ्रमणं कृतम्, इन्दौरस्य स्वादस्य अपि आस्वादनं कृतम्
इन्दौरनगरम्, १० जूनमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे प्रचलति पञ्चदिवसीये ब्रिक्स-कृषि-सम्मेलने द्वितीयदिने बुधवासरे प्रातःकाले इन्दौरस्य सांस्कृतिकपरम्परा आतिथ्यस्य च अद्भुतं दृश्यं दृष्टम्। ब्रिक्सदेशै: सह २० अधिकदेशानां कृषि-मन्त्रिणः, वरिष्
विदेशी प्रतिनिधियों ने की राजवाड़ा में हेरिटेज वॉक


विदेशी प्रतिनिधियों ने की राजवाड़ा में हेरिटेज वॉक


इन्दौरनगरम्, १० जूनमासः (हि.स.)। मध्यप्रदेशस्य इन्दौरनगरे प्रचलति पञ्चदिवसीये ब्रिक्स-कृषि-सम्मेलने द्वितीयदिने बुधवासरे प्रातःकाले इन्दौरस्य सांस्कृतिकपरम्परा आतिथ्यस्य च अद्भुतं दृश्यं दृष्टम्। ब्रिक्सदेशै: सह २० अधिकदेशानां कृषि-मन्त्रिणः, वरिष्ठ-अधिकारीणः, कृषि-विशेषज्ञाश्च ऐतिहासिके राजवाड़े हेरिटेज-भ्रमणं कृत्वा नगरस्य गौरवशाली-इतिहासं साक्षात् अवलोकितवन्तः।

तदनन्तरं प्रतिनिधयः ग्रामीणहाट इत्यत्र गत्वा कृषि-उत्पादानां, जैविक-कृषेः, ग्रामीण-उद्यमानां च परिचयं प्राप्तवन्तः।

ब्रिक्स-सम्मेलने जर्मनी-इथियोपिया-इन्डोनेशिया-प्रभृतयः विंशत्यधिकदेशानां प्रतिनिधयः सम्मिलिताः सन्ति। तेषां कृते प्रातःकाले हेरिटेज-भ्रमणं आयोजितम् आसीत्। पूर्वं इयं भ्रमणयात्रा बोलिया-सर्वकार-छत्र्यां प्रस्ताविता आसीत्, किन्तु तत्परिवर्त्य अतिथयः सार्धषड्वादने साक्षात् राजवाड़ां प्राप्तवन्तः।

राजवाड़ायां आगतानां विदेशीय-अतिथीनां पारम्परिकरीत्या स्वागतं कृतम्। तत्र तेषां कृते गोल-मेल-व्यवस्था कृता आसीत्। होलकर-कालीन-दरबारस्य प्रदर्शिनी, हरकाराणां ध्वनिः, शास्त्रीय-संगीतं, सांस्कृतिक-प्रस्तुतयश्च प्रतिनिधीन् भारतीयपरम्परया मालव-प्रदेशस्य समृद्ध-सांस्कृतिक-परम्परया च परिचितवन्तः। इतिहासकारैः तेषां कृते देवी अहिल्याबाई होलकर-सम्बद्धाः तथा होलकर-शासनकालस्य महत्त्वपूर्णाः प्रसङ्गाः कथिताः।

हेरिटेज-भ्रमणकाले प्रतिनिधयः गोपालमन्दिरमपि गतवन्तः, यत्र ते ऐतिहासिक-भवनानां मनोहर-दारुशिल्पं स्थापत्यकला च अवलोकितवन्तः। विदेशी-अतिथयः मन्दिरपरिसरस्य भव्यतायाः ऐतिहासिकमहत्त्वस्य च अत्यधिकं प्रभावं प्राप्नुवन्।

इन्दौरस्य प्रसिद्धं पारम्परिकं पोहा-जलेबी अपि विदेशीय-अतिथिभिः आस्वादितः। चाय-कॉफी-सहितं परोक्षितानां स्थानीय-व्यञ्जनानां ते प्रशंसां कृतवन्तः।

सम्मेलनस्य विभिन्नेषु सत्रेषु खाद्य-सुरक्षा, कृषि-व्यापारः, जलवायु-अनुकूल-कृषिः, कृषि-नवाचारः, पशुपालनं मत्स्यपालनं च विषयाः चर्चायाम् सन्ति। बुधवासरे संयुक्त-घोषणापत्रस्य मसौदस्य अपि विचार-विमर्शः भविष्यति, सायंकाले सदस्य-देशानां मध्ये द्विपक्षीय-संवादाः च भविष्यन्ति।

सम्मेलनस्य प्रथमदिने भारत-रूसदेशयोः मध्ये सम्पन्नायां द्विपक्षीय-वार्तायां कृषि-व्यापारवृद्धिः, तकनीकी-सहयोग-सुदृढीकरणं, खाद्य-सुरक्षा च विषये चर्चाः अभवन्। उभौ देशौ जलवायु-अनुकूल-कृषेः तथा कृषि-अनुसन्धान-क्षेत्रे सहयोगवृद्धौ सहमतौ अभवताम्।

विशेषज्ञानां मतानुसारम् इदं आयोजनं मध्यप्रदेशस्य कृषि-खाद्य-प्रसंस्करण-निर्यात-क्षेत्रेषु वैश्विक-प्रतिष्ठां वर्धयिष्यति तथा निवेश-तकनीकी-सहयोगयोः नूतनान् अवसरान् प्रदास्यति।

Hindusthan Samachar / Divya Ranjan