नीत्यायोगस्य सभायां सहभागितार्थं मुख्यमन्त्री हेमन्तसोरेनः नवदेहलीं प्रति प्रस्थितः
राँचीनगरम्, १० जूनमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः अध्यक्षतायां जूनमासस्य ११ दिनाङ्के नवदेहल्यां नीत्यायोगस्य ११-तमा शासिपरिषदः इत्यस्याः महत्त्वपूर्णा सभा भविष्यति। अस्यां उच्चस्तरीयसभायां सहभागितार्थं झारखण्डस्य मुख्यमन्त्री हेमन्तसोरेन
फाइल फोटो मुख्यमंत्री


राँचीनगरम्, १० जूनमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः अध्यक्षतायां जूनमासस्य ११ दिनाङ्के नवदेहल्यां नीत्यायोगस्य ११-तमा शासिपरिषदः इत्यस्याः महत्त्वपूर्णा सभा भविष्यति। अस्यां उच्चस्तरीयसभायां सहभागितार्थं झारखण्डस्य मुख्यमन्त्री हेमन्तसोरेनः बुधवासरे नवदेहलीं प्रति प्रस्थितः। सभायां राज्यस्य पक्षं सुदृढतया प्रस्तोतुं झारखण्ड-सर्वकारेण स्वस्य सर्वाः सिद्धताः सम्पन्नाः कृताः।

नीत्यायोगस्य मुख्यकार्यनिर्वाहिका निधिछिब्बर-इत्यनया अस्मिन् विषये झारखण्डस्य मुख्यसचिवाय अविनाशकुमाराय पत्रं सम्प्रेष्य सभायाः कार्यसूच्याः विवरणं प्रदत्तम्। अस्याः सभायाः मुख्यविषयः “विकसितभारताय मानवसम्पदः” इति निर्धारितः अस्ति। एतदतिरिक्तं २०२५ तमस्य वर्षस्य दिसम्बरमासे आयोजिते मुख्यसचिवानां पञ्चमे राष्ट्रियसम्मेलने याः प्राथमिकताः अनुशंसाश्च निर्धारिताः आसन्, तासां विषयेऽपि अस्यां सभायां विस्तृतचर्चा भविष्यति।

नीत्यायोगस्य उपाध्यक्षेन मुख्यमन्त्रिणे हेमन्तसोरेनाय अस्याः सभायाः कृते विशेषनिमन्त्रणं प्रेषितम्। मुख्यमन्त्रिणा सह राज्यस्य अनेकाः वरिष्ठाधिकारिणः अपि अस्यां सभायां झारखण्डस्य प्रतिनिधित्वं करिष्यन्ति। राज्यसर्वकारेण तेषाम् अधिकारिणां नामानि निश्चित्य नीत्यायोगाय प्रेषितानि।सभायां सहभागिनः भविष्यन्ति एते अधिकारिणः—• अविनाशकुमारः — झारखण्डस्य मुख्यसचिवः।• मुकेशकुमारः — योजना-विकास-विभागस्य सचिवः।• अरवा-राजकमलः — नवदेहल्यां राज्यस्य आवासीय-आयुक्तः।• विजयाजाधवः — योजना-विकास-विभागस्य अपरसचिवा।

Hindusthan Samachar / Divya Ranjan