मोदी-सर्वकारस्य द्वादशवर्षपूर्त्यवसरे सांसदेन जनसम्पर्क-अभियानम् आयोजितम्
पलामूनगरम्, १० जूनमासः (हि.स.)। केन्द्रे प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वयुक्तस्य सर्वकारस्य द्वादशवर्षपूर्त्यवसरे पलामू-लोकसभाक्षेत्रस्य सांसदः विष्णुदयालरामः बुधवासरे हुसैनाबाद-विधानसभाक्षेत्रे विशेषं जनसम्पर्क-अभियानम् अचालयत्।“विश्वासस्य, व
निरीक्षण करते सांसद वीडी राम


पलामूनगरम्, १० जूनमासः (हि.स.)। केन्द्रे प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वयुक्तस्य सर्वकारस्य द्वादशवर्षपूर्त्यवसरे पलामू-लोकसभाक्षेत्रस्य सांसदः विष्णुदयालरामः बुधवासरे हुसैनाबाद-विधानसभाक्षेत्रे विशेषं जनसम्पर्क-अभियानम् अचालयत्।“विश्वासस्य, विकासस्य, जनकल्याणस्य च द्वादशवर्षाणि” इति कार्यक्रमस्य अन्तर्गतं तेन क्षेत्रस्य विविधैः सामाजिक-राजनैतिक-प्रबुद्धजनैः सह साक्षात्कारः कृतः तथा केन्द्रसर्वकारस्य उपलब्धीनां जनकल्याणकारीयोजनानां च विषये सूचना प्रदत्ता।

जनसम्पर्क-अभियानस्य समये-सांसदेन जपला, दंगवार तथा समीपवर्तिक्षेत्रेषु बहुषां जनानां गृहेषु गत्वा संवादः कृतः। अस्मिन् क्रमे दंगवार-ग्रामस्य प्रमुखस्य अमरेन्द्रठाकुरस्य निवासे मध्याह्नभोजनमपि कृतम्। ततः परं जपला-छतरपुर-मार्गस्थितस्य चारधाम-प्रदेशस्य समीपे वृक्षारोपणं कृत्वा पर्यावरणसंरक्षणस्य सन्देशः प्रदत्तः। सांसदेन पतरा-खुर्द-ग्रामे भाजपाकार्यकर्तुः सत्येन्द्रसावस्य पुत्रस्य जले निमज्जनेन जातायाः अकालमृत्योः प्रसङ्गे शोकसन्तप्तकुटुम्बेन सह साक्षात्कारः कृतः, संवेदनाः व्यक्ताः तथा सर्वथा सहयोगस्य आश्वासनं दत्तम्।

तथैव गांधी-चत्वरे स्वच्छता-अभियानं सञ्चालयित्वा जनाः स्वच्छताः प्रति जागरूकाः कृताः। तेन प्लास्टिक-द्रव्यस्य दुष्प्रभावान् प्रति चिन्ता व्यक्ता तथा वस्त्रनिर्मितानां कर्गदनिर्मितानां च पुटकानां उपयोगस्य प्रोत्साहनं कर्तुम् आह्वानं कृतम्।

कार्यक्रमस्य अन्तर्गतं सांसदेन जलजीवन-अभियानस्य अधीनं सोन-नदी-आधारितां निर्माणाधीनां पेयजलापूर्तियोजनां, जुडको-संस्थया सञ्चालितां हुसैनाबाद-नगरीय-जलापूर्तियोजनां तथा हरिहरगञ्ज-चतुर्मार्गीय-परिहारमार्ग-परियोजनां निरीक्ष्य प्रगतिविषये सूचना प्राप्ता। छतरपुर-ग्रामीण-जलापूर्तियोजनायाः निरीक्षणकाले नलिकायां जलस्रावः दृष्टः, यस्मात् सः अप्रसन्नतां प्रकटितवान् तथा सम्बन्धित-स्थल-प्रभारीं प्रति एकसप्ताहस्य अन्तः समस्यां निवारयितुम् आदेशं दत्तवान्।

सांसदः अवदत् यत् प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे गतद्वादशवर्षेषु निर्धनानां, कृषकाणां, महिलानां तथा वञ्चितवर्गाणां उत्थानार्थं ऐतिहासिकानि कार्याणि सम्पन्नानि। विकसितभारतस्य सङ्कल्पस्य साकारतां प्रति देशः शीघ्रगतिना अग्रे सरति।

अस्मिन् अवसरे भारतीयजनतापक्षस्य अनेकाः पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan