नरेन्द्रमोदिनः दीर्घतमकालपर्यन्तं प्रधानमन्त्रित्वपदे स्थितेः उपलक्ष्ये झारखण्ड-भाजपया हनुमन्मन्दिरे विशेष-पूजार्चना कृता
राँचीनगरम्, १० जूनमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः देशस्य इतिहासे दीर्घतमकालपर्यन्तं प्रधानमन्त्रिपदे स्थितेः उपलक्ष्ये राँची-नगरस्य मुख्य-मार्ग-स्थिते प्राचीन-हनुमन्मन्दिरे भारतीयजनतापक्षस्य पक्षतः विशेष-पूजार्चना-कार्यक्रमः आयोजितः। अ
भाजपा प्रदेश अध्यक्ष सहित अन्य


राँचीनगरम्, १० जूनमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः देशस्य इतिहासे दीर्घतमकालपर्यन्तं प्रधानमन्त्रिपदे स्थितेः उपलक्ष्ये राँची-नगरस्य मुख्य-मार्ग-स्थिते प्राचीन-हनुमन्मन्दिरे भारतीयजनतापक्षस्य पक्षतः विशेष-पूजार्चना-कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे मुख्यतया प्रदेशाध्यक्षः आदित्यसाहू सहभागितां कृतवान्। पूजार्चनानन्तरं तेन फलानां मिष्टान्नानां च वितरणमपि कृतम्।

प्रदेशाध्यक्षः आदित्यसाहू अवदत् यत् नरेन्द्रमोदी यदा आरभ्य देशस्य प्रधानमन्त्री अभवत्, तदा प्रभृतिः विविधाभिः कल्याणकारी-योजनाभिः देशस्य १४० कोटि-जनानां निरन्तरसेवायाः कार्यं कृतवान्। तेन निष्कपटभावेन देशस्य निर्धनानां, कृषकाणां, श्रमिकाणां, शोषितानां, वञ्चितानां च सर्वेषां वर्गाणां समानरूपेण सेवा कृता। अत एव देशस्य जनतया तृतीयवारमपि सः प्रधानमन्त्रिरूपेण निर्वाचितः। नरेन्द्रमोदिनः निरन्तरं दीर्घतमकालपर्यन्तं प्रधानमन्त्रिपदे स्थितेः अवसरः तथा आशीर्वादः जनतायाः कृपयैव प्राप्तः।

सः पुनरवदत् यत् नरेन्द्रमोदी राष्ट्रहितस्य विषये यथा समर्पितः अस्ति, तथैव देवदेवीषु अपि समानश्रद्धां धारयति। तेन राष्ट्रनिर्माणेन सह सांस्कृतिकपरम्परायाः संरक्षणं संवर्धनं च कृतम्। राममन्दिरस्य निर्माणम् अस्य उत्तमम् उदाहरणम् अस्ति। ईश्वरात् प्रार्थना क्रियते यत् सः प्रधानमन्त्रिणे नरेन्द्रमोदिने एतादृशीं शक्तिं ददातु, येन सः एवं सेवाभावेन निरन्तरं राष्ट्रसेवायां संलग्नः भवेत्। तेन प्रधानमन्त्रिणः स्वस्थं दीर्घायुष्यं च कामितम्।

अस्मिन् अवसरे विधायकः सी.पी.सिंहः, प्रतुलशाहदेवः, योगेन्द्रप्रतापसिंहः, अशोकबडाईकः, राकेशभास्करः, जितेन्द्रवर्मा, राजूसिंहः, के.के.गुप्तः, संकेततिवारी, जितेन्द्रपटेलः, सुबोधकान्तः, ललितओझा, संजयजयसवालः, रविमुण्डा, संजयसहायः, अमनजयसवालः तथा अन्ये नेतारः कार्यकर्तारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan