Enter your Email Address to subscribe to our newsletters

इन्दौरनगरम्, १० जूनमासः (हि.स.)। मध्यप्रदेशस्य औद्योगिक-आर्थिक-क्रियाकलापानां प्रमुखकेन्द्ररूपेण उद्भासमानम् इन्दौर-नगरं पुनरपि महत्त्वपूर्णम् उपहारं प्राप्तुं गच्छति। मध्यप्रदेश-औद्योगिकविकासनिगमेन एक्सएसआईओ-लॉजिस्टिक्स-निर्माण्यै इन्दौरस्य माचल-ग्रामे २३.३३ हेक्टेयर-परिमिता भूमिः आवंटिता अस्ति। अत्र निर्माण्या ६०० कोटिरूप्यकाणां निवेशेन अत्याधुनिकं समन्वितञ्च लॉजिस्टिक्स-केन्द्रं स्थापितं भविष्यति।
एमपीआईडीसी-संस्थायाः कार्यकारी-सञ्चालकः हिमांशु-प्रजापतिः बुधवासरे अवदत् यत् अस्यां परियोजनायां वैश्विकनिवेशसंस्थया ब्लैकस्टोन-संस्थया प्रत्यक्षविदेशीनिवेशः क्रियते। प्रस्ताविते अस्मिन् लॉजिस्टिक्स-उद्याने ६०० कोटिरूप्यकेभ्यः अधिकः निवेशः भविष्यति तथा च अनेन माध्यमेन ४,००० अधिकानां प्रत्यक्षाप्रत्यक्षरोजगारावसराणां सृजनं भविष्यति।
सः अवदत् यत् एषा परियोजना प्रदेशस्य लॉजिस्टिक्स-आपूर्तिशृङ्खला-अवसंरचनां नूतन-उच्चतायां नेतुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति। प्रस्तावितस्य लॉजिस्टिक्स-केन्द्रस्य प्रत्यक्षः सम्बन्धः इन्दौर-अहमदाबाद-राष्ट्रीयराजमार्गेण सह भविष्यति। अपि च एषा परियोजना इन्दौर-पीथमपुर-आर्थिक-परिसरेण सह सम्बद्धा भविष्यति, येन वस्तुपरिवहनस्य गतिः कार्यदक्षता च उल्लेखनीयतया वर्धिष्यते। एषा सुविधा विशेषतः पीथमपुर-क्षेत्रं-७, मोहना-औद्योगिकक्षेत्रं तथा समीपस्थानि औद्योगिकप्रतिष्ठानानि विश्वस्तरीय-लॉजिस्टिक्स-सेवाभिः लाभान्वितानि करिष्यति।
एमपीआईडीसी-संस्थायाः कार्यकारी-सञ्चालकः प्रजापतिः अवदत् यत् एतत् नवीनं लॉजिस्टिक्स-उद्यानं पश्चिम-इन्दौर-क्षेत्रे विकसितस्य विस्तृतस्य लॉजिस्टिक्स-जालस्य महत्त्वपूर्णः अंशः भविष्यति। पूर्वमेव विकसिते १,११० कोटिरूप्यक-मूल्ये बहुविध-परिवहन-लॉजिस्टिक्स-उद्याने पीथमपुरे तथा कानकोर-संस्थया सञ्चालितायां आई.सी.डी.-टीही-लॉजिस्टिक्स-सुविधाभिः सह एषा परियोजना पश्चिम-इन्दौर-क्षेत्रे सुदृढं समग्रं च लॉजिस्टिक्स-परितन्त्रं निर्मास्यति, यत् लॉजिस्टिक्स-व्ययं निरन्तरं न्यूनीकर्तुं साहाय्यं करिष्यति।
प्रजापतेः अनुसारम् एतासां परियोजनानां कार्यान्वयनेन इन्दौर-पीथमपुर-क्षेत्रयोः देशस्य प्रमुखेषु औद्योगिक-लॉजिस्टिक्स-केन्द्रेषु स्थानं अधिकं सुदृढं भविष्यति तथा च प्रदेशे निवेशस्य, उद्योगस्य, रोजगारस्य च नूतनावसराणां मार्गः प्रशस्तः भविष्यति। परियोजनायाः सफलकार्यन्वयनार्थं निर्माण्यै शासनस्तरेण सर्वं अपेक्षितं सहयोगं प्रदास्यते, येन एषा परियोजना शीघ्रमेव धरातले कार्यरूपेण परिणमेत्।
Hindusthan Samachar / Divya Ranjan