Enter your Email Address to subscribe to our newsletters

जोधपुरनगरम्, १० जूनमासः (हि.स.)। बॉलिवुड-अभिनेत्री कङ्गनारनौतः गुरुवासरे जोधपुरे स्वस्य अग्रिम-चलच्चित्रस्य “भारत-भाग्य-विधाता” इत्यस्य भव्य-प्रथमप्रदर्शन-कार्यक्रमे सहभागिनी भविष्यति। चलच्चित्रस्य प्रस्तुतकर्ता निर्माता च जयंतीलाल-गाडा अपि अस्मिन् अवसरे उपस्थितः भविष्यति। नगरस्य पेन-इण्डिया-मॉल इत्यत्र अयं कार्यक्रमः आयोज्यते। एतत् चलच्चित्रं जून-मासस्य १२ दिनाङ्के देशव्यापिषु चित्रमन्दिरेषु प्रदर्शितं भविष्यति।
“भारत-भाग्य-विधाता” इति चलचित्रं तादृशं इतिहासस्य प्रकरणं रजतपटे प्रस्तौति, यत् इतिहासग्रन्थेषु चर्चासु च पर्याप्तं स्थानं न प्राप्तवति। एतत् चलच्चित्रं तासां परिचारिकाणां तथा वार्ड-सेवकानां शौर्यकथां केन्द्रे स्थापयति, ये २००८ तमे वर्षे मुम्बई-नगरस्य भीषण-आतङ्कवादी-आक्रमणकाले स्वप्राणान् संकटे निधाय चतुर्शताधिकजनानां प्राणरक्षणे महत्त्वपूर्णां भूमिकां निर्वुढवन्तः। चलचित्रस्य मुख्यविषयः तेषु सामान्येषु जनेषु केन्द्रितः अस्ति, ये असाधारणं साहसं प्रदर्श्य संकटसमये मानवतायाः जीवन्तमुदाहरणं प्रस्तुतवन्तः। अस्य चलचित्रस्य पूर्वावलोकनम् सम्प्रतिकाले प्रकाशितम्, यत् प्रेक्षकैः सकारात्मकरूपेण स्वीकृतम्।पूर्वावलोकने भयः, सङ्घर्षः, साहसम् इत्येतेषां मध्ये मानवीयसंवेदनानां विशेषं चित्रणं कृतम् अस्ति। चलच्चित्रनिर्मातारः वदन्ति यत् एतत् चलचित्रं तेषां अज्ञात-नायकान् प्रति श्रद्धाञ्जलिः अस्ति, येषां शौर्यगाथां विषये बहवः जनाः न जानन्ति। अस्मिन् चलचित्रे कङ्गनारनौतः परिचारिकायाः भूमिकां उत्कृष्टतया अभिनीतवती अस्ति।
चलच्चित्रे कङ्गनारनौत-इत्यनया सह गिरिजा-ओकः, स्मिता-ताम्बे, अमृता-नामदेवः, ईशा-डे, प्रिया-बेर्डे, आशा-शेलारः, सुहिता-थाटे, रसिका-अघासे, आदित्य-मिश्रः तथा जाहिद-खानः प्रमुखभूमिकासु दृश्यन्ते। डॉ.जयंतीलाल-गाडा इत्यस्य प्रस्तुतौ निर्मितम् एतत् चलचित्रं यूनोइया फिल्म्स एलएल्पी तथा फ्लोटिङ्ग रॉक्स एण्टरटेन्मेण्ट प्राइवेट लिमिटेड इत्येतयोः सहयोगेन पेन स्टूडियोज, मणिकर्णिका फिल्म्स तथा परमहंसक्रिएशन्स इत्येतैः निर्मितम् अस्ति।
Hindusthan Samachar / Divya Ranjan