Enter your Email Address to subscribe to our newsletters


भोपालनगरम्, १० जूनमासः (हि.स.)। मध्यप्रदेशात् राज्यसभायाः त्रयाणां रिक्तासनानां द्विवार्षिकनिर्वाचनार्थं नामनिर्देशनपत्राणां संवीक्षणानन्तरं बुधवासरे अभ्यर्थिनां अन्तिमा सूची प्रकाशिता। अस्यां सूच्यां भारतीयजनतापक्षस्य त्रयाणाम् अभ्यर्थिनाम्—तरुणचुघः, महेशकेवटः तथा रजनीश-अग्रवालः— नामानि समाविष्टानि सन्ति।
मध्यप्रदेशात् राज्यसभायाः त्रयाणां स्थानानां कार्यकालः जूनमासस्य २१ दिनाङ्के समाप्तिं गमिष्यति। एतेषु आसनेषु द्वे आसने भारतीयजनतापक्षस्य, एकम् आसनं च कांग्रेसपक्षस्य अधिकारक्षेत्रे अस्ति। एतासां त्रयाणाम् आसनानां कृते भारतीयजनतापक्षस्य त्रयः अभ्यर्थिनः—तरुणचुघः, महेशकेवटः, रजनीश-अग्रवालः—तथा कांग्रेसपक्षस्य मीनाक्षीनटराजनः नामनिर्देशनपत्राणि समर्पितवन्तः। किन्तु भारतीयजनतापक्षस्य आपत्तेः अनन्तरं शपथपत्रे अनियमितताः प्राप्ताः इति कारणेन मीनाक्षीनटराजनस्य नामनिर्देशनपत्रं मङ्गलवासरे निरस्तम् अभवत्।
मध्यप्रदेशविधानसभायां बुधवासरे अवशिष्टानां त्रयाणां नामनिर्देशनपत्राणां संवीक्षणं सम्पन्नम्। ततः प्रत्यावर्तना-धिकारिणा अरविन्दशर्मणा अभ्यर्थिनां अन्तिमा सूची प्रकाशिता।
वास्तवतः मीनाक्षीनटराजनस्य नाम-निर्देशनस्य विरुद्धं भारतीय-जनतापक्षेण औपचारिक-आपत्तिः प्रस्तुता आसीत्। पक्षस्य आरोपः आसीत् यत् मीनाक्षीनटराजनेन तेलङ्गानाराज्यस्य हैदराबाद-न्यायालये प्रचलितस्य एकस्य प्रकरणस्य सूचना नामनिर्देशनपत्रे गोपिता।
अपरतः कांग्रेसपक्षस्य अभ्यर्थिनः मीनाक्षीनटराजनस्य नामनिर्देशनं निरस्तं जातम् इति कारणेन कांग्रेसपक्षेन प्रदेशव्यापि विरोधप्रदर्शनानि कृतानि। बुधवासरे कांग्रेसपक्षस्य दशसदस्यीयं प्रतिनिधिमण्डलं नूतनदिल्लीनगरे निर्वाचनायोगस्य अधिकारिभिः सह मिलितम्। अस्मिन् प्रतिनिधिमण्डले अभिषेकमनुसिंघवी, के.सी.वेणुगोपालः, जयरामरमेशः, रणदीपसुरजेवाला, सचिनपायलटः, भूपेशबघेलः तथा विवेकतन्खा इत्यादयः समाविष्टाः आसन्।
Hindusthan Samachar / Divya Ranjan