नेपालीपिता-पुत्रौ एकस्मिन् सत्रे वारद्वयम् एवरेस्ट पर्वतं समम्आरुह्य निर्मितवन्तः विश्वकीर्तिमानम्
काठमांडूः, 10 जूनमासः (हि.स.)। नेपालदेशस्य एकः पिता पुत्रश्च पर्वतारोहणस्य इतिहासे नवीनम् अध्यायं संयोजयन्तौ एकस्मिन् एव पर्वतारोहणकालखण्डे द्विवारं सहैव विश्वस्य सर्वोच्चां शिखरम् एवरेस्ट पर्वतशिखरं विजित्य ऐतिहासिकं कीर्तिमानं स्थापितवन्तौ। पि
नेपाल के पिता पुत्र को जोड़ी एवरेस्ट पर


काठमांडूः, 10 जूनमासः (हि.स.)।

नेपालदेशस्य एकः पिता पुत्रश्च पर्वतारोहणस्य इतिहासे नवीनम् अध्यायं संयोजयन्तौ एकस्मिन् एव पर्वतारोहणकालखण्डे द्विवारं सहैव विश्वस्य सर्वोच्चां शिखरम् एवरेस्ट पर्वतशिखरं विजित्य ऐतिहासिकं कीर्तिमानं स्थापितवन्तौ।

पिता पुत्रयोः एषा उपलब्धिः कस्यापि पूर्वनियोजितस्य अभिलेखप्रयत्नस्य भागः न आसीत्। उभौ स्वकीयव्यावसायिककर्तव्यस्य अन्तर्गतं अभियानमार्गदर्शकरूपेण कार्यं कुर्वन्तौ आस्ताम्, तस्मिन् एव समये एतत् ऐतिहासिकं कीर्तिमानं जातम्।

छाङ्वा शेर्पा तथा लाक्पा तासी शेर्पा सप्तदशमस्य मईमासस्य प्रातः पञ्चवादने त्रिंशन्मिनिटे चीनदेशीयं पर्वतारोही क्यूलोंग पेंग इत्येनं समुद्रतलात् अष्टसहस्र अष्टशत अष्टचत्वारिंशत् दशमांश षट्षष्टिमीटर उच्चं एवरेस्ट शिखरं सफलतया प्रापितवन्तौ। अभियानं सम्पन्न्य सुरक्षितरूपेण प्रत्यागत्य तौ अग्रिमस्य अभियानस्य सिद्धिं प्रारब्धवन्तौ।

षट्दिनात् अपि न्यूनसमयानन्तरं त्रयोविंशतितमे मईमासे प्रातः त्रिवादने एकोनत्रिंशन्मिनिटे उभौ पिता पुत्रौ पुनः एवरेस्टशिखरे स्थितवन्तौ। अस्मिन् समये तौ भारतस्य प्रतिष्ठितस्य एनएसजी ब्लैक कैट कमाण्डो दलस्य सदस्याणां नेतृत्वं कुर्वन्तौ आस्ताम्। अनन्तरं ताभ्यां ज्ञातं यत् ताभ्यां पर्वतारोहणस्य इतिहासे अद्वितीयः अभिलेखः निर्मितः।

अनुभवी पर्वतमार्गदर्शकः छाङ्वा शेर्पा तस्य पुत्रः लाक्पा तासी शेर्पा च एतां उपलब्धिं प्राप्तवन्तौ विश्वस्य प्रथमौ पिता पुत्रौ स्तः। द्विसहस्र षड्विंशत्यधिक द्विसहस्रतमे पर्वतारोहणकालखण्डे एतया युगलया केवलं पञ्चदिन एकविंशतिघण्टा नवपञ्चाशन्मिनिटपरिमिते अन्तरे द्विवारम् एवरेस्टशिखरं प्राप्य विश्वाभिलेखः स्थापितः।

छाङ्वा शेर्पा द्विसहस्र सप्तदशवर्षात् आरभ्य व्यावसायिकपर्वतमार्गदर्शकरूपेण कार्यरतः अस्ति तथा च नेपालदेशस्य अत्यन्तसफल उच्चहिमालयीयमार्गदर्शकेषु गणितः अस्ति। तस्य पुत्रः लाक्पा तासी बाल्यकालादेव अभियानजीवनं समीपतः दृष्ट्वा वर्धितः। सः स्वपितरं विश्वस्य सर्वोच्चशिखराणां प्रति गच्छन्तं दृष्टवान् तथा पश्चात् स्वयम् अपि एतस्य व्यवसायस्य स्वीकरणस्य निर्णयं कृतवान्।

लाक्पा तासी कृते द्विसहस्र षड्विंशतिवर्षस्य पर्वतारोहणकालखण्डः विशेषतया स्मरणीयः अभवत्। अस्मात् पूर्वं सः एवरेस्ट अभियानेषु सहायकभूमिकायां कार्यं कृतवान् आसीत्, किन्तु अस्मिन् वर्षे सः प्रथमवारं स्वपित्रा सह एवरेस्टशिखरे सफलतया पदं स्थापितवान्। ततः एकसप्ताहात् अपि न्यूनकाले पुनः द्वितीयवारं शिखरं प्राप्य सः अस्य अनुभवस्य ऐतिहासिकाम् उपलब्धिं निर्मितवान्।

अस्मिन् पर्वतारोहणकालखण्डे द्वाभ्यां सफलारोहणाभ्यां सह छाङ्वा शेर्पा कुलतः दशमवारं एवरेस्टशिखरं विजितवान्। तस्य अनुभवः केवलम् एवरेस्टपर्यन्तं सीमितः नास्ति, अपि तु तेन अन्येषु अपि उच्चहिमालयीयशिखरेषु सफलाः अभियानाः सञ्चालिताः सन्ति।

एषा उपलब्धिः न केवलं नेपालदेशस्य पर्वतारोहणस्य इतिहासे अपितु विश्वपर्वतारोहणसमुदाये अपि प्रेरणादायिनी ऐतिहासिकी च मीलशिला इति मन्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani