Enter your Email Address to subscribe to our newsletters

अयोध्यानगरम्, १० जूनमासः (हि.स.)। प्रधानमन्त्री-नरेन्द्रमोदिनः निरन्तरं दीर्घतमकालपर्यन्तं निर्वाचित-प्रधानमन्त्रित्वस्य नूतन-कीर्तिमान-स्थापनस्य उपलक्ष्ये अयोध्यायां भारतीयजनतापक्षस्य कार्यकर्तारः उत्साहपूर्वकं हर्षम् अभिव्यक्तवन्तः। अस्मिन् अवसरे विविधेषु धार्मिकस्थलेषु पूजा-अर्चना-वैदिकानुष्ठानानां च आयोजनं कृत्वा राष्ट्रस्य निरन्तर-प्रगत्यर्थं प्रार्थना कृता।
पूर्वसांसदस्य लल्लूसिंहस्य नेतृत्वे अयोध्यास्थिते क्षीरेश्वरनाथ-मन्दिरे रुद्राभिषेकः सम्पन्नः। ततः अनन्तरं भरतकुण्डे हवन-पूजनस्य आयोजनम् अभवत्, यस्मिन् बहुसंख्यकाः भाजपाकार्यकर्तारः समर्थकाः च सहभागिनः अभवन्।
बुधवासरे वैदिकमन्त्र-उच्चारणस्य मध्ये राष्ट्रस्य समृद्ध्यै, सामाजिक-सौहार्दाय तथा जनकल्याणाय प्रार्थना कृता। पूर्वसांसदः लल्लूसिंहः अवदत् यत् प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे देशेन विकासस्य, आधारभूत-अवसंरचनायाः, सुशासनस्य तथा वैश्विक-प्रतिष्ठायाः क्षेत्रेषु उल्लेखनीयाः उपलब्धयः प्राप्ताः।
सः अवदत् यत् नरेन्द्रमोदिनः निरन्तरं तृतीयवारं प्रधानमन्त्रित्वप्राप्तिः तथा दीर्घकालपर्यन्तं जनविश्वासस्य संरक्षणं लोकतन्त्रस्य महती उपलब्धिः अस्ति। तेन उक्तम्— “प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतदेशः विश्वपटलस्य उपरि नूतनां परिचितिं प्राप्तवान्। एषा उपलब्धिः देशवासिनां विश्वासस्य तथा तस्य समर्पित-नेतृत्वस्य प्रमाणम् अस्ति। अग्रिमवर्षेषु भारतदेशः अधिकं गौरवशाली भविष्यति।”
Hindusthan Samachar / Divya Ranjan