Enter your Email Address to subscribe to our newsletters


नवदेहली, १० जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे अवदत् यत् राष्ट्रीयजनतान्त्रिकगठबन्धनम् राष्ट्रसेवायै विकसितभारतनिर्माणस्य ध्येयस्य साकारार्थं नूतनोत्साहेन सह कार्यं निरन्तरं करिष्यति। अस्य गठबन्धनस्य सत्तायां द्वादशवर्षाणि पूर्णानि अभवन्।
केन्द्रे राजग-सर्वकारस्य द्वादशवर्ष-पूर्त्युपलक्ष्ये अद्य नवदेहल्यां भारत-मण्डपम्स्थले प्रधानमन्त्री-नरेन्द्रमोदिनः अध्यक्षतायां देशस्य विभिन्नभागेभ्यः आगतानां गठबन्धन-सम्बद्धनेतॄणां सभाम् अभवत्।
देशस्य दीर्घतमकालपर्यन्तं सेवां कृतवान् निर्वाचितः प्रधानमन्त्री इति गौरवं प्राप्ते नरेन्द्रमोदिने राजग-नेतारः भारतमण्डपे अभिनन्दनं कृतवन्तः। अस्मिन् अवसरे गठबन्धनस्य नेतारः तथा राजग-शासितराज्यानां मुख्यमन्त्रिणः तस्मै उपहारान् समर्प्य सम्मानं प्रदत्तवन्तः।
प्रधानमन्त्री नरेन्द्रमोदी ‘एक्स’ इति सञ्चारमाध्यमे सभायाः चित्राणि स्थापयित्वा राजगस्य मुख्यमन्त्रिभ्यः नेतृभ्यश्च शुभकामनाभ्यः धन्यवादं प्रकटितवान्। सः अवदत्— “राजगस्य यात्रा राष्ट्रहितस्य तथा प्रादेशिकाकाङ्क्षाणां संवर्धनस्य सामूहिकसंकल्पेन प्रेरिता अस्ति। एषा भावना अस्माकं लोकतन्त्रं सुदृढीकृतवती, सहकारी-संघवादं गभीरतरं कृतवती तथा विकासस्य गतिम् अपि वर्धितवती। गतद्वादशवर्षेषु राजगेन स्थिरः सर्वकारः प्रदत्तः, येन सर्वेषु क्षेत्रेषु प्रगतिः प्रवर्धिता।”
प्रधानमन्त्री सभायाः मध्यविरामकाले झालमुरी-भक्षणसम्बद्धानि चित्राण्यपि प्रकाशितवान्। सः अलिखत्— “भारतमण्डपे राजगस्य सभायाः समये झालमुरी-नामकं अल्पाहारम्। अस्माकं सर्वे नेतारः एतस्य अल्पाहारस्य सम्यक् आनन्दम् अनुभूतवन्तः।” विशेषतया पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दुभट्टाचार्यः प्रधानमन्त्रिणे झालमुरीम् उपाहृतवान्।
Hindusthan Samachar / Divya Ranjan