प्रधानमन्त्री नरेन्द्रमोदी उक्तवान्— जनसेवैव सुशासनस्य सर्वोत्तम: पक्ष: अस्ति
नवदेहली, १० जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः जनसेवायाः परिभाषां रेखाङ्कयन् स्पष्टतया उक्तवान् यत् समर्पणस्य कर्तव्यस्य च मार्गे गच्छन्तः एव जनविश्वासम् अर्जयितुं शक्नुवन्ति। तेन ‘एक्स’ माध्यमे एतत् सुभाषितं लिखितम्— सदानुरक्
22f039194158b8821d6229d0a7c3afd7_1143817777.jpg


नवदेहली, १० जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः जनसेवायाः परिभाषां रेखाङ्कयन् स्पष्टतया उक्तवान् यत् समर्पणस्य कर्तव्यस्य च मार्गे गच्छन्तः एव जनविश्वासम् अर्जयितुं शक्नुवन्ति। तेन ‘एक्स’ माध्यमे एतत् सुभाषितं लिखितम्—

सदानुरक्तप्रकृतिः प्रजापालनतत्परः।विनीतात्मा हि नृपतिर्भूयसी श्रियमश्नुते॥

प्रधानमन्त्री स्वसन्देशे अलिखत्— “जनसेवैव सुशासनस्य सर्वोत्तम: पक्ष: अस्ति। विनयेन, समर्पणेन, कर्तव्यनिष्ठया च सह निरन्तरं कार्यं कुर्वन् एव जनविश्वासम् अर्जयति।” एतत् सुभाषितं प्रसिद्धात् नीतिग्रन्थात् ‘कामन्दकीय-नीतिसार’ (प्रथमः सर्गः, श्लोकः २४) इत्यस्मात् गृहीतम् अस्ति।

अस्य भावार्थः अस्ति यत् यः शासकः स्वप्रजासु सदैव स्नेहभावं धारयति, तासां कल्याणाय रक्षणाय च निरन्तरं तत्परः भवति, स्वयम् अपि अत्यन्तं विनीतः भवति, सः अपारां समृद्धिम्, ऐश्वर्यं च प्राप्नोति।

Hindusthan Samachar / Divya Ranjan