सर्वाधिक लंबाय कार्यकालाय प्रधानमंत्रिणे मोदिने लभन्ते वर्धापनानि
नव दिल्ली, 10 जूनमासः (हि.स.)। देशस्य निर्वाचितप्रधानमन्त्रिरूपेण निरन्तरं चतुःसहस्रत्रिशतनवनवतिनव दिनानि अर्थात् सर्वाधिककालपर्यन्तं पदे स्थितत्वस्य अवसर उपलक्ष्य प्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्मै राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नव दिल्ली, 10 जूनमासः (हि.स.)।

देशस्य निर्वाचितप्रधानमन्त्रिरूपेण निरन्तरं चतुःसहस्रत्रिशतनवनवतिनव दिनानि अर्थात् सर्वाधिककालपर्यन्तं पदे स्थितत्वस्य अवसर उपलक्ष्य प्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्मै राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सीपी राधाकृष्णन, लोकसभाध्यक्षः ओम बिरला तथा केन्द्रीयमन्त्रिणः अभिनन्दनं शुभकामनाश्च प्रदत्तवन्तः।

राष्ट्रपतिः द्रौपदी मुर्मु बुधवासरे एक्स सामाजिकमाध्यममञ्चे अभिनन्दनं शुभकामनाश्च प्रदाय उक्तवती यत् एषा उपलब्धिः देशवासिनां प्रधानमन्त्रिणः मोदी इत्यस्य नेतृत्वे व्यक्तस्य अखण्डविश्वासस्य भरोसस्य च प्रमाणम् अस्ति। तया उक्तं यत् मोदी सर्वकारस्य कार्यकाले शासनक्षेत्रे आर्थिकसुदृढीकरणे सामाजिकपरिवर्तने च दूरगामिनी प्रगतिः अभवत् तथा च विविधाभिः कल्याणकारीभिः योजनाभिः विकासस्य लाभः समाजस्य अन्तिमजनपर्यन्तं प्रापयितुं प्रयासः कृतः। राष्ट्रपतिना विशेषतः पीएम जनमन तथा धरती आबा जनजातीय ग्राम उत्कर्ष अभियानस्य उल्लेखः कृतः तथा च एते जनजातीयसमुदायस्य उत्थानदिशि महत्त्वपूर्णे उपक्रमे इति कथिते।

उपराष्ट्रपतिः सीपी राधाकृष्णन एतां उपलब्धिं केवलं दीर्घकार्यकालस्य न अपि तु भारतस्य परिवर्तनशीलयुगस्य प्रतीकम् इति अवदत्। तेन उक्तं यत् प्रधानमन्त्रिणः मोदी इत्यस्य नेतृत्वे भारतम् आर्थिकविकासे आधारभूतसंरचनायां प्रौद्योगिकीयोन्नतौ सामाजिकसशक्तीकरणे वैश्विकप्रतिष्ठायां च उल्लेखनीयां प्रगतिं प्राप्तवान्। तेन उक्तं यत् इतिहासः अब्राहम लिंकन इत्यं मानवीयगौरवस्य संवर्धनाय दासताप्रथायाः समापनाय च स्मरति। अधुना प्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्य नाम समावेशीविकासस्य माध्यमेन पञ्चविंशतिकोट्यधिकजनान् अत्यन्तदारिद्र्यात् बहिः आनयितुं कोटिशः परिवारेषु आशां अवसरं सम्मानं च पुनः प्रतिष्ठापयितुं इतिहासे अभिलेखितं भविष्यति।

उपराष्ट्रपतिना उक्तं यत् इतिहासस्य निर्णायकक्षणे प्रधानमन्त्रिणा स्वस्य दूरदर्शिनेतृत्वेन अविश्रान्तसेवया राष्ट्र प्रथम इति आदर्शस्य प्रति अचलप्रतिबद्धतया भारतस्य सामर्थ्ये आकाङ्क्षासु च नवीनः आत्मविश्वासः सञ्चारितः तथा च समकालीनभारतस्य सत्यः युगपुरुषः इव उदितः। तेन विकसितभारत २०४७ लक्ष्यं प्रति अग्रसरस्य राष्ट्रस्य पक्षतः तस्य निरन्तरराष्ट्रसेवायै शुभकामनाः व्यक्ताः।

लोकसभाध्यक्षः ओम बिरला उक्तवान् यत् प्रधानमन्त्रिणः मोदी इत्यस्य चतुःसहस्रत्रिशतनवनवतिनव दिनानां निरन्तरसेवा भारतीयलोकतन्त्रस्य दृढतायाः जनविश्वासस्य च प्रतीकम् अस्ति। तेन उक्तं यत् अस्मिन् अवधौ संवैधानिकमूल्यानां संसदीयलोकतन्त्रस्य लोकतान्त्रिकसंस्थानां च अधिका सुदृढता अभवत्।

केन्द्रीयगृहसहकारितामन्त्री अमित शाह प्रधानमन्त्रिणः मोदी इत्यस्य द्वादशवर्षीयकार्यकालं भारतस्य स्वाभिमानस्य सांस्कृतिकपुनर्जागरणस्य आत्मनिर्भरत्वस्य च कालः इति अवदत्। तेन उक्तं यत् अस्मिन् काले नवीनसंसद्भवनस्य निर्माणं नवीनानां आपराधिकविधानानां कार्यान्वयनम् नवीनशिक्षानीतिः मातृभाषासु चिकित्सायाः अभियान्त्रिकीशिक्षायाः च आरम्भः जम्मू कश्मीरतः अनुच्छेदस्य त्रिशतसप्तत्यधिकस्य निरसनं राममन्दिरनिर्माणं राष्ट्रीयसुरक्षायाः सुदृढीकरणं च इत्यादयः अनेकाः ऐतिहासिकाः निर्णयाः स्वीकृताः।

केन्द्रीयवित्तमन्त्री निर्मला सीतारमण एक्स सामाजिकमाध्यमे लिखितवती यत् प्रधानमन्त्री नरेन्द्र मोदी भारतस्य सर्वाधिककालं सेवां कृतवान् निर्वाचितप्रधानमन्त्री इति नवीनं अभिलेखं स्थापितवान्। तया उक्तं यत् गतचतुःसहस्रत्रिशतनवनवतिनव दिनेषु प्रधानमन्त्रिणा देशस्य समक्षम् उपस्थितेषु अनेकेषु चुनौतीपूर्णकालखण्डेषु निर्णायकं दृढं च नेतृत्वं प्रदत्तम्। अन्त्योदय तथा सबका साथ सबका विकास सबका विश्वास सबका प्रयास इति भावनया सर्वकारेण विकासस्य लाभः देशस्य अन्तिमजनपर्यन्तं प्राप्तः इति सुनिश्चितम्। वित्तमन्त्रिणा उक्तं यत् प्रधानमन्त्रिणः नेतृत्वे राष्ट्रियजनतान्त्रिकगठबन्धन सर्वकारेण अनेकाः महान् साहसिकसुधाराः कार्यान्विताः येषां कारणात् जनतया निरन्तरं तस्मिन् विश्वासः प्रदर्शितः।

रक्षामन्त्री राजनाथ सिंह प्रधानमन्त्रिणं मोदी अभिनन्द्य उक्तवान् यत् तस्य कार्यकालः राष्ट्र प्रथम इति भावनया प्रेरितस्य समर्पितनेतृत्वस्य उदाहरणम् अस्ति। तेन उक्तं यत् गतद्वादशवर्षेषु भारतम् विकासे वैश्विकनेतृत्वे सांस्कृतिकपुनर्जागरणे च उल्लेखनीयाः उपलब्धयः प्राप्तवान् तथा च देशः स्वस्य विरासतां प्रति गौरवं कुर्वन् आत्मविश्वासेन सह अग्रे गच्छति।

केन्द्रीयमन्त्री गिरिराज सिंह उक्तवान् यत् चतुःसहस्रत्रिशतनवनवतिनव दिनानां अविरतजनसेवा राष्ट्रहितस्य प्रति समर्पणस्य विकसितभारतसंकल्पस्य च एषः ऐतिहासिकः सोपानः अस्ति। प्रधानमन्त्री नरेन्द्र मोदी अद्य भारतस्य सर्वाधिककालं सेवां कृतवान् निर्वाचितप्रधानमन्त्री अभवत्। तस्य नेतृत्वे डिजिटल क्रान्तिः आधुनिकाधारसंरचना जनकल्याणकारीयोजनाः वैश्विकप्रतिष्ठायाः नूतनाः अध्यायाः च लिखिताः।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ उक्तवान् यत् पञ्चचत्वारिंशदधिकशतकोटि भारतवासिनां सेवा सुरक्षा समृद्ध्यर्थं निरन्तरसमर्पितस्य प्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्य भारतस्य इतिहासे सर्वाधिककालपर्यन्तं निर्वाचितप्रधानमन्त्रिरूपेण सेवां कृतवतः जननेतुः रूपे अभिनन्दनम्। तेन उक्तं यत् इतिहासे एतादृशाः अवसराः विरलाः भवन्ति यदा किमपि नेतृत्वं केवलं सर्वकारस्य न भवति अपि तु युगस्य चेतनायाः प्रतीकं भवति। एषः सम्मानः तस्य तपसः त्यागस्य दूरदृष्टेः राष्ट्रनिष्ठायाः च अभिनन्दनम् अस्ति येन कोटिशः देशवासिनः विकसितभारतस्य स्वप्नेन सम्बद्धाः।

छत्तीसगढस्य मुख्यमन्त्री विष्णु देव साई देशवासिनां सेवा सुरक्षा समृद्ध्यर्थं निरन्तरसमर्पितस्य प्रधानमन्त्रिणः मोदी इत्यस्य ऐतिहासिक उपलब्ध्याः कृते शुभकामनाः व्यक्तवान्। तेन उक्तं यत् एषा ऐतिहासिकी उपलब्धिः चत्वारिंशदधिकशतकोटि भारतवासिनां अखण्डविश्वासस्य सम्मानस्य च तस्य दूरदर्शिनेतृत्वे प्राप्तस्य अभूतपूर्वजनसमर्थनस्य सशक्तं प्रमाणम् अस्ति।

उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्र मोदी दशम जून २०२६ दिनाङ्के भारतस्य सर्वाधिककालपर्यन्तं निरन्तरं सेवां कृतवान् लोकतान्त्रिकरीत्या निर्वाचितः प्रधानमन्त्रिरूपेण द्वादशवर्षीयम् ऐतिहासिककार्यकालं पूर्णं कृतवान्। तेन निरन्तरं चतुःसहस्रत्रिशतनवनवतिनव दिनानि प्रधानमन्त्रिपदे स्थित्वा भारतस्य प्रथमप्रधानमन्त्री पण्डित जवाहरलाल नेहरू इत्यस्य चतुःसहस्रत्रिशतनवनवतिअष्ट दिनानां अभिलेखं अतिक्रान्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani