Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, १० जूनमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सेवा, सुशासनं निर्धनकल्याणं च इत्येषां सफलद्वादशवर्षपूर्त्यवसरे छत्तीसगढ-भाजपा-महिला-मोर्चया प्रदेशव्यापिनः विशेष-पूजार्चना-प्रार्थना-कार्यक्रमाः आयोजिताः। महिला-मोर्चायाः तत्वावधाने राजधानी-रायपुरेण सह प्रदेशस्य सर्वेषु संघटनात्मक-जनपदेषु, मण्डलेषु तथा मतदानकेन्द्रस्तरीयेषु प्रमुखमन्दिरेषु प्रातःकालात् एव महिला-पदाधिकारिणीनां कार्यकर्त्रीणां च समागमः अभवत्। अस्मिन् अवसरे महिलाभिः वैदिक-मन्त्र-उच्चारणेन सह पूजार्चना कृता, आरार्तिकी समर्पिता, सुन्दरकाण्डस्य हनुमानचालीसायाः च पाठः कृतः।
महिला-मोर्चायाः प्रदेशाध्यक्षा विभा-अवस्थी रायपुरस्थिते जगन्नाथ-मन्दिरे महिला-मोर्चायाः पदाधिकारिणीभिः कार्यकर्त्रीभिश्च सह पूजार्चनायां भागं गृहीत्वा अवदत् यत् प्रधानमन्त्रिणा मोदिना गतद्वादशवर्षेषु देशः विकासस्य नूतन-शिखरं प्राप्तः। महिला-सशक्तीकरणस्य क्षेत्रे ‘मुद्रायोजना’, ‘उज्ज्वलायोजना’ तथा ‘नारीशक्ति-वन्दन-अधिनियमः’ इत्यादयः ऐतिहासिकनिर्णयाः देशस्य कोटिशः मातृणां भगिनीनां च जीवनं परिवर्तितवन्तः। अद्य वयं सर्वाः भगवन्तं शिवं लोकदेवताश्च प्रार्थितवन्त्यः यत् ते मोदिमहोदयाय दीर्घायुः उत्तमस्वास्थ्यं च प्रदद्यु:, येन सः एवं प्रकारेण मातृभूमेः सेवां निरन्तरं कर्तुं शक्नुयात्।
प्रदेशव्यापी अभूतपूर्वोत्साहः दृष्टः
एषः विशेषः कार्यक्रमः छत्तीसगढस्य सर्वेषु क्षेत्रेषु दृष्टिगोचरः अभवत्। बस्तरात् सरगुजापर्यन्तं वनवासी-अञ्चलेषु स्थितेषु स्थानीय-देवालयेषु महिला-मोर्चायाः भगिन्यः सुख-समृद्ध्यर्थं प्रार्थनाम् अकुर्वन्। सायङ्काले बहुषु जनपदेषु महिलाभिः द्वादशवर्षपूर्तेः प्रतीकरूपेण द्वादश-द्वादश-दीपाः प्रज्वालिताः, महती आरार्तिकी च कृता। ताभिः देशस्य अखण्डतायै सुरक्षायै च संकल्पः गृहीतः।
पूजायाः अनन्तरं सर्वेषु मन्दिरेषु सामान्यजनानां श्रद्धालूनां च मध्ये प्रसादस्य वितरणं कृतम्। अस्मिन् विशेष-प्रार्थना-कार्यक्रमे भाजपा-महिला-मोर्चायाः प्रदेश-पदाधिकारिण्यः, जनपद-अध्यक्षा:, मण्डल-अध्यक्षा:, स्थानीय-महिला-जनप्रतिनिधयः तथा बहुसंख्यया मातृशक्तिः स्थानीयनागरिकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan