Enter your Email Address to subscribe to our newsletters

नवदेहली, १० जूनमासः (हि.स.)। केन्द्रीय-कृषि-तथा-कृषक-कल्याणमन्त्री शिवराजसिंहचौहानः प्रधानमन्त्रीनरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारस्य द्वादशवर्षाणां पूर्णतायाः उपलक्ष्ये तं भारताय भगवतः वरदानरूपेण वर्णयन् उक्तवान् यत् प्रधानमन्त्रीमोदी विगतेषु द्वादशवर्षेषु एकक्षणमपि विश्रामं न कृत्वा अहर्निशं देशस्य जनसेवायां निरतः आसीत्। तस्य कार्यकालः विकासस्य, जनकल्याणस्य, राष्ट्रनिर्माणस्य च दृष्ट्या अभूतपूर्वः अस्ति।
केन्द्रीयमन्त्री शिवराजसिंहचौहानः अद्य प्रातः नवदेहल्यां विनयमार्गस्थिते हनुमानमन्दिरे पूजां कृत्वा प्रधानमन्त्रीनरेन्द्रमोदिनः स्वस्थदीर्घायु-सफलजीवनाय च कामनां कृतवान्। अस्मिन् अवसरे सः अवदत् यत् निर्वाचितप्रधानमन्त्रीरूपेण नरेन्द्रमोदी सर्वाधिककालं निरन्तरं कार्यरतः प्रधानमन्त्री अस्ति, तस्य कार्यकालः अद्यापि प्रवर्तते। सः अवदत् यत् प्रधानमन्त्रिणः कृते जनसेवाकार्यं एव रामकार्यं भवति। सामान्यजनः यथेष्टं परिश्रमं कर्तुं न शक्नोति। महर्षिअरविन्देन परिकल्पितस्य ‘अतिमानवस्य’ संज्ञां दत्त्वा सः अवदत् यत् मोदी क्लान्ततां विना, विरामं विना च राष्ट्रहिते कार्यं कुर्वन् अस्ति।
केन्द्रीयमन्त्री उक्तवान् यत् विगतेषु द्वादशवर्षेषु देशे अधोसंरचना-विकासस्य या गतिः दृश्यते, सा पूर्वं कल्पयितुमपि कठिनासीत्। प्रधानमन्त्रीनरेन्द्रमोदिना महिलानां, यूनां, कृषकाणां, निर्धनानां च कल्याणाय अनेकाः योजनाः निर्मिताः, ताः च प्रभावीरीत्या क्रियान्विताः। सः अवदत् यत् प्रधानमन्त्री दूरदर्शी नेतृत्वसम्पन्नः अस्ति तथा समयात् पूर्वमेव भविष्यस्य आवश्यकताः अवगम्य योजनाः निर्माति।
शिवराजसिंहचौहानः अवदत् यत् प्रधानमन्त्रिणः कृते राष्ट्रहितं सर्वोपरि अस्ति। सामान्यजनान् प्रति तस्य मनसि संवेदना, आत्मीयता, समर्पणभावश्च अस्ति, परन्तु देशविरोधिनां समाजविरोधिनां च प्रति तस्य रुखः अत्यन्तं कठोरः अस्ति। सः अवदत् यत् प्रधानमन्त्री “वसुधैव कुटुम्बकम्” इति भावनायां विश्वासं धारयति। कोविड-१९ महामारीकाले भारतेन १०० अधिकदेशेषु वैक्सीन इति प्रदत्तम् तथा विश्वस्य विविधेषु भागेषु संकटसमये सहायता प्रेषिता। प्रधानमन्त्रीनरेन्द्रमोदिनः नेतृत्वे भारतं वैश्विकस्तरे मानवतायाः सेवायां अग्रणीभूमिकां निर्वहति।
Hindusthan Samachar / Divya Ranjan