Enter your Email Address to subscribe to our newsletters

जयपुरम्, 10 जूनमासः (हि.स.)।
जयपुर जनपदे आगामि षोडश जून दिनाङ्कात् स्टॉप डायरिया कैम्पेन इति अभियानस्य आयोजनं भविष्यति। एतत् अभियानम् आगामि एकत्रिंशत् जुलाई दिनाङ्कपर्यन्तं सञ्चालितं भविष्यति। अस्य अभियानस्य अन्तर्गतं अतिसाररोगस्य निवारणाय सुरक्षारक्षणं तथा उपचारसम्बद्धानां जागरूकतापरकक्रियाकलापानाम् आयोजनं भविष्यति। अस्मिन् वर्षे अभियानं डायरिया निवारणं स्वच्छता तथा ओआरएस द्वारा स्वस्य संरक्षणं कुरुत इति विषयवस्तुनि आयोजितं भविष्यति।
मुख्य चिकित्साधिकारी स्वास्थ्याधिकारी जयपुर प्रथम डॉ रवि शेखावत तथा मुख्य चिकित्साधिकारी स्वास्थ्याधिकारी जयपुर द्वितीय डॉ मनीष मित्तल अवदताम् यत् वर्षाकाले अतिसाररोगस्य सम्भावनाः वर्धन्ते। बालमृत्यूनां कारणेषु अतिसारः प्रमुखः कारकः अस्ति। अतिसाररोगनियन्त्रणाय षोडश जून दिनाङ्कात् स्टॉप डायरिया कैम्पेन इति अभियानस्य आयोजनं क्रियते यस्मिन् सामान्यजनाः अतिसाररोगस्य निवारणोपायैः तथा उपचारक्रियाभिः परिचिताः कारयिष्यन्ते। अस्मिन् वर्षे जनपदे डायरिया निवारणं स्वच्छता तथा ओआरएस द्वारा स्वस्य संरक्षणं कुरुत इति विषयाधारिताः विविधाः जागरूकताक्रियाकलापाः आयोजिताः भविष्यन्ति।
उप मुख्य चिकित्साधिकारी स्वास्थ्याधिकारी परिवार कल्याण प्रथम डॉ धर्मेंद्र कराड़िया तथा उप मुख्य चिकित्साधिकारी स्वास्थ्याधिकारी परिवार कल्याण द्वितीय डॉ सौरभ आर्य अवदताम् यत् आगामि षोडश जूनतः एकत्रिंशत् जुलाईपर्यन्तं स्टॉप डायरिया कैम्पेन इति अभियानम् आयोजितं भविष्यति। अभियानस्य अन्तर्गतं आशाः पञ्चवर्षपर्यन्तानां बालकानाम् अतिसारनियन्त्रणाय गृहं गृहं गत्वा जिंक गोलिकाः तथा ओआरएस घोलस्य पुटकान् वितरिष्यन्ति तथा सामान्यजनान् जागरूकान् करिष्यन्ति। अस्य अन्तर्गतं चिकित्सासंस्थासु ओआरएस कॉर्नर इत्यस्य स्थापनं करिष्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani