टीबीमुक्तभारताभियानस्य’  अन्तर्गते उत्तरप्रदेशे अन्विष्टाः1.43 लक्षं रोगिणः
लखनऊ, 10 जूनमासः (हि.स.)। उत्तरप्रदेशे प्रचलिते शतदिवसीये क्षयरोगमुक्त भारत अभियाने अद्यावधि प्रायः एकत्रिंशल्लक्ष जनानां परीक्षणं कृतम् अस्ति। तेषु एकलक्ष त्रिचत्वारिंशत्सहस्र क्षयरोगिणः चिन्हिताः सन्ति। विशेषः विषयः अयं यत् एतेषु एकलक्ष त्रिचत्
अमित कुमार घोष


लखनऊ, 10 जूनमासः (हि.स.)।

उत्तरप्रदेशे प्रचलिते शतदिवसीये क्षयरोगमुक्त भारत अभियाने अद्यावधि प्रायः एकत्रिंशल्लक्ष जनानां परीक्षणं कृतम् अस्ति। तेषु एकलक्ष त्रिचत्वारिंशत्सहस्र क्षयरोगिणः चिन्हिताः सन्ति। विशेषः विषयः अयं यत् एतेषु एकलक्ष त्रिचत्वारिंशत्सहस्र चिन्हितरोगिषु एकचत्वारिंशत्सहस्राधिकेषु जनानां शरीरेषु क्षयरोगजीवाणवः प्राप्ताः, येषु किमपि लक्षणं न दृश्यते। सर्वेषां रोगिणां चिकित्सा आरब्धा अस्ति।

अपरमुख्यसचिवः चिकित्सा स्वास्थ्य विभागस्य अमित कुमार घोषो बुधवासरे शतदिवसीय अभियानस्य समीक्षां कुर्वन् निर्देशान् प्रदत्तवान् यत् येषु क्षेत्रेषु अपेक्षिता प्रगतिः न जाता, तानि क्षेत्राणि चिन्हित्वा सूक्ष्मयोजनां अधिकं सुदृढां क्रियताम् तथा च गृहगृहं सम्पर्ककार्यक्रमाः जनजागरूकतासम्बद्धाः क्रियाकलापाः च वर्धिताः भवन्तु। तेन सर्वेषां परीक्षणानां परीक्षणसमीक्षणसम्बद्धदत्तांशानां वास्तविकसमये निक्षय पोर्टल इत्यस्मिन् आरोपणस्य अपि निर्देशः दत्तः, येन पारदर्शिता प्रभावी पर्यवेक्षणं च सुनिश्चितं भवेत्। अपरमुख्यसचिवेन आगामि शुक्रवासरे भविष्यन्त्यां समीक्षा उपवेशने सर्वे मुख्यचिकित्साधिकारी अनिवार्यरूपेण उपस्थिताः भवितुम् अपि निर्देशः दत्तः।

समीक्षा उपवेशने निवेदितं यत् शतदिवसीय अभियानस्य प्रथमेषु सप्तसप्ततिदिवसेषु प्रदेशस्य उच्चजोखिमयुक्तेषु ग्रामेषु नगरीयप्रभागेषु झुग्गी बस्तीषु अन्येषु संवेदनशीलक्षेत्रेषु च सप्तदशसहस्र नवशत षष्टि आयुष्मान आरोग्य शिविराणां माध्यमेन सघनं परीक्षण अभियानं प्रचलति। प्रथमेषु सप्तसप्ततिदिवसेषु त्रिंशल्लक्ष द्वानवतिसहस्र सप्तशत अष्टषष्टि जनानां परीक्षणं सम्पन्नम् अस्ति, तेषु एकलक्ष द्विचत्वारिंशत्सहस्र षट्शत एकषष्टि जनाः क्षयरोगिणः रूपेण चिन्हिताः। एतेषु एकचत्वारिंशत्सहस्र सप्तपञ्चाशत् लक्षणविहीनरोगिणः प्राप्ताः।

अभियानस्य अन्तर्गतं आयोजिताः आयुष्मान आरोग्य शिविराः केवलं क्षयरोग परीक्षणपर्यन्तं सीमिताः न सन्ति, अपितु तेषु रक्तहीमोग्लोबिन परीक्षणं, रक्तचाप परीक्षणम्, मधुमेह परीक्षणम् इत्यादयः अन्याः आवश्यकाः स्वास्थ्यसेवाः अपि एकस्मिन् एव स्थाने प्रदीयन्ते, येन सामान्यजनानां समग्रस्वास्थ्यलाभः भवति।

प्रदेशे अद्यावधि षड्विंशतिसहस्र सप्तशत द्वाविंशति उच्चजोखिमयुक्तग्रामाः क्षेत्राणि च चिन्हितानि सन्ति तथा च सप्तदशसहस्र नवशत षष्टि आयुष्मान आरोग्य शिविराणाम् आयोजनं कृतम् अस्ति, येषु नगरीय ग्रामीणक्षेत्रयोः व्यापकआवरणं सुनिश्चितं कृतम् अस्ति।

विभागात् प्राप्तानां प्रदत्तानाम् अनुसारं प्रदेशे अद्यावधि द्वाविंशल्लक्ष पञ्चदशसहस्र षट्शत षडशीतिः क्ष किरण परीक्षणानि कृतानि सन्ति। तेन सह अणुस्तरीय परीक्षणक्षेत्रे अपि उल्लेखनीया प्रगतिः जाता, यत्र द्विसहस्र पञ्चशत अष्टसप्तति नैट यन्त्राणां माध्यमेन अद्यावधि षट्लक्ष पञ्चसहस्र द्विशत पञ्चसप्ततिः परीक्षणानि कृतानि सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani