Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 10 जूनमासः (हि.स.)।भारतीयजनतापक्षस्य उच्चनेतृत्वस्य आह्वाने बुधवासरे जनपदस्य सर्वेषु चतुर्विंशतिमण्डलेषु एकैकस्मिन् देवालये भव्यं भजनकीर्तनं पूजनकार्यक्रमश्च आयोजितः। भाजपाजनपदाध्यक्षस्य लाल बहादुर सरोज नेतृत्वे आयोजिते अस्मिन् कार्यक्रमे प्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्य अद्यावधि दीर्घतमकार्यकालस्य नूतनकीर्तिमानस्थापनस्य तथा केन्द्रसर्वकारस्य द्वादशवर्षपूर्णतायाः उपलक्ष्ये विशेषप्रार्थना कृता।
कार्यक्रमस्य समये जनप्रतिनिधिभिः पक्षपदाधिकारिभिः कार्यकर्तृभिश्च देवालयेषु विधिवत् दर्शनपूजनं कृत्वा प्रधानमन्त्रिणः नरेन्द्र मोदी इत्यस्य उत्तमस्वास्थ्याय दीर्घायुषे यशस्विजीवनाय च कामना कृता। भजनकीर्तनस्य माध्यमेन देशस्य सुखसमृद्धये निरन्तरप्रगतये च प्रार्थना अपि कृता।
जनपदाध्यक्षः लाल बहादुर सरोज उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी देशस्य दीर्घतमकार्यकालयुक्तेषु प्रधानमन्त्रिषु समाविष्टः भूत्वा नूतनम् इतिहासं निर्माति। तस्य नेतृत्वे भारतदेशः विकासे सुरक्षायां वैश्विकमञ्चे च स्वस्य दृढां परिचितिं स्थापितवान्। सः उक्तवान् यत् डिजिटल इण्डिया, मेक इन इण्डिया तथा आत्मनिर्भर भारत इत्यादिभिः अभियानेभ्यः देशः नूतनां दिशां गतिं च प्राप्तवान्।
पूजनार्चनानन्तरं देवालयपरिसरेषु मिष्टान्नवितरणं कृतम्। कार्यक्रमे सम्मिलितैः श्रद्धालुभिः अपि राष्ट्रस्य उन्नत्यै शान्तये समृद्धये च प्रार्थना कृता तथा प्रधानमन्त्रिणः राष्ट्रनिर्माणे योगदानस्य प्रशंसा कृता।
अस्मिन् अवसरे जनपदस्य जनप्रतिनिधयः जनपदपदाधिकारिणः मण्डलपदाधिकारिणः शक्तिकेन्द्रसंयोजकाः मण्डलप्रभारिणः बूथाध्यक्षाः पक्षस्य अन्ये कार्यकर्तारः समितेः सदस्याश्च बहुसंख्यया उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani