Enter your Email Address to subscribe to our newsletters


केंद्र सरकारस्य सेवा, सुशासनस्य एवं जन कल्याणस्य 12 वर्षाणां पूर्णानां अवसरे वृहद गो संरक्षण केंद्र किशन तेजखेड़ायां कार्यक्रमः आयोजितः
लखनऊ, 10 जूनमासः (हि.स.)।
उत्तरप्रदेशस्य पशुधन एवं दुग्धविकासविभागस्य मन्त्रिमण्डलीयमन्त्री धर्मपाल सिंह केन्द्रसर्वकारस्य द्वादशवर्षपूर्णतायाः उपलक्ष्ये बुधवासरे काकोरीक्षेत्रस्य किशन तेज खेड़ा स्थिते गोशालायां आयोजिते कार्यक्रमे मुख्यातिथिरूपेण सहभागितां कृतवान्। अस्मिन् अवसरे सः गोमातुः पूजनार्चनं कृत्वा तस्याः आशीर्वादं प्राप्तवान् तथा च तस्यै गुडं च चणकं च खादयित्वा सामान्यजनानां मध्ये गोसेवायाः सन्देशं प्रदत्तवान्।
अस्मिन् अवसरे स्वसम्बोधने पशुधनमन्त्री उक्तवान् यत् देशस्य प्रधानमन्त्रिणः नरेन्द्र मोदिनो नेतृत्वे विगतद्वादशवर्षेषु देशेन विकासस्य सुशासनस्य जनकल्याणस्य च क्षेत्रेषु नवीनाः आयामाः स्थापिताः सन्ति। तस्य नेतृत्वे पशुधन एवं दुग्धविकासक्षेत्रे अभिनवाः प्रेरणादायकाश्च कार्याः क्रियमाणाः सन्ति, यस्य प्रत्यक्षलाभः कृषकेभ्यः पशुपालकेभ्यः ग्रामीणार्थव्यवस्थायै च प्राप्यते। सः उक्तवान् यत् प्रधानमन्त्रिणः सबका साथ, सबका विकास, सबका विश्वास तथा सबका प्रयास इति मन्त्रः देशं आत्मनिर्भरं कर्तुं दिशि निरन्तरम् अग्रे नयति तथा एक भारत श्रेष्ठ भारत इति परिकल्पनां साकारीकरोति।
धर्मपाल सिंह उक्तवान् यत् केन्द्र एवं राज्यसर्वकारयोः संयुक्तप्रयत्नेन पशुधनस्वास्थ्यसेवाः ग्रामे ग्रामे प्राप्यन्ते। अस्यैव क्रमस्य अन्तर्गतं चलितपशुचिकित्सायानम् इव अभिनवव्यवस्था उत्तरप्रदेशे सञ्चाल्यते, यस्य माध्यमेन पशुपालकेभ्यः स्वगृहे एव पशुचिकित्सासेवाः प्रदीयन्ते। प्रदेशाय पञ्चशताधिकाः विंशत्युत्तराः चलितपशुचिकित्सायानाः प्राप्ताः सन्ति तथा च १९६२ इति निःशुल्कदूरवाणीसंख्यायां सम्पर्के कृते निर्धारितसमये पशुचिकित्सकीयसहायता प्रदीयते। अस्याः व्यवस्थायाः कारणात् पशूनां चिकित्सायाः टीकाकरणस्य स्वास्थ्यसंरक्षणस्य च क्षेत्रे नवीनगति प्राप्ता अस्ति।
अस्मिन् अवसरे उपस्थितान् कृषकान् पशुपालकांश्च प्रति प्रार्थनां कुर्वन् पशुधनमन्त्री उक्तवान् यत् दुग्धदानं निरुद्धवत्यः गावः अनाथरूपेण न त्यजन्तु, अपि तु तासां समुचितपालनं कुर्वन्तु अथवा स्थानीयगोशालायां तासां संरक्षणं कुर्वन्तु। गोवंशः अस्माकं सांस्कृतिकधरोहरः ग्रामीणार्थव्यवस्थायाः च महत्वपूर्णः आधारः अस्ति। गोसंरक्षणं केवलं सामाजिकदायित्वम् एव न, अपितु भावीसंततीनां कृते महत्वपूर्णः संकल्पः अपि अस्ति। सर्वकारः गोवंशसंरक्षणसंवर्धनं पशुपालकानां आयवृद्धिं च प्रति निरन्तरं कार्यं करोति।
सः उक्तवान् यत् प्रधानमन्त्रिणः नेतृत्वे पशुपालनं दुग्धक्षेत्रं च कृषिसमानं महत्त्वं प्राप्तवन्तौ, यस्य परिणामस्वरूपेण दुग्धोत्पादनस्य पशुधनस्वास्थ्यस्य आनुवंसशिकसुधारस्य जीविकासृजनस्य च क्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्ताः सन्ति। सर्वकारस्य विविधाः योजनाः ग्रामीणपरिवाराणां महिलानां लघुपशुपालकानां च आर्थिकसशक्तीकरणं कुर्वन्ति।
अस्मिन् अवसरे पशुधन एवं दुग्धविकासराज्यमन्त्री कृष्णा पासवान उक्तवती यत् प्रदेशसर्वकारः गोवंशसंरक्षणाय पशुपालककल्याणाय च पूर्णप्रतिबद्धतया कार्यं करोति। सा गोसंरक्षणं समाजस्य सामूहिकदायित्वम् इति कथयित्वा जनसहभागितावर्धने बलं दत्तवती।
अस्मिन् अवसरे मन्त्रिगणैः वरिष्ठाधिकारिभिः च वृहद्गोसंरक्षणकेन्द्रस्य निरीक्षणं कृतम् तथा गोवंशस्य कृते उपलब्धस्य तृणस्य चारे पेयजलस्य स्वास्थ्यसेवानां च व्यवस्थाः अवलोकिताः। गोवंशसंरक्षणसंवर्धनक्षेत्रे सञ्चालितानां योजनानां समीक्षां कृत्वा आवश्यकाः निर्देशाः प्रदत्ताः। कार्यक्रमस्य समये केन्द्रसर्वकारस्य द्वादशवर्षीयानां उपलब्धीनां पशुधनविकासस्य गोसंरक्षणक्षेत्रे कृतानां कार्याणां च विषये विस्तरेण प्रकाशः स्थापितः। कार्यक्रमे उपस्थितैः जनैः गोसंरक्षणाय पशुधनविकासाय ग्रामीणसमृद्धये च सर्वकारस्य प्रयत्नाः प्रशंसिताः।
कार्यक्रमे पशुधन एवं दुग्धविकासविभागस्य अपरमुख्यसचिवः मुकेश कुमार मेश्राम, विशेषसचिवः देवेंद्र पांडे, प्रशासन एवं विकासनिदेशकः डा मेमपाल सिंह, रोगनियन्त्रण एवं प्रक्षेत्रनिदेशकः डा राजेन्द्र प्रसादः तथा विभागस्य वरिष्ठाधिकारिणः सहभागिताम् अकुर्वन्। अस्मिन् अवसरे विभागीयाधिकारिणः स्थानीयजनप्रतिनिधयः पशुपालकाः बहुसंख्यकाः ग्रामीणजनाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani