Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 10 जूनमासः (हि.स.)। जिगना थाना क्षेत्रस्य नेगुरा रिबई सिंह ग्रामे बुधवासरे प्रयागराज उच्च न्यायालयस्य न्यायमूर्तिना मंजू रानी चौहानेन जिलाधिकारी तथा पुलिस अधीक्षकस्य उपस्थितौ नवप्रस्तावितायाः पुलिसारक्षिस्थलस्य भूमिपूजनं शिलान्यासं च सम्पन्नम्। वैदिकमन्त्रोच्चारणस्य मध्ये आयोजिते कार्यक्रमे आचार्य पं रमेश चन्द्र त्रिपाठी विधिविधानानुसारं पूजनं सम्पन्नवान्। कार्यक्रमं सम्बोधयन्ती सा अवदत् यत् ग्रामे पुलिसस्थापनया विधिव्यवस्थायाः अधिकं सुदृढीकरणं भविष्यति तथा च अपराधनियन्त्रणे सहायता प्राप्ता भविष्यति।
जिलाधिकारी पवन कुमार गंगवार पर्यावरणसंरक्षणस्य सन्देशं दत्त्वा एकः वृक्षः मातुः नाम्ना इति अभियाने जनभागीदारीं सुनिश्चितां कर्तुम् आह्वानं कृतवान्। पुलिस अधीक्षिका अपर्णा रजत कौशिक ग्रामवासिभ्यः कस्यापि अपराधस्य सन्दिग्धक्रियाकलापस्य वा सूचना त्वरितं पुलिस विभागाय दातुम् अपीलं कृतवती येन समये प्रभावी कार्यवाही कर्तुं शक्यते।
ज्ञापितं यत् क्रिटिकल गैप्स योजना अन्तर्गतं चतुर्दशलक्षचतुर्विंशतिसहस्र रुप्यकाणां व्ययेन ग्रामस्य पूर्वसीम्नि पुलिसारक्षिस्थलस्य निर्माणं कारयिष्यते। कार्यदायिसंस्था ग्रामीण अभियंत्रण विभागस्य अधिशासी अभियन्त्रा अवदत् यत् प्रायः षष्टि वर्गमीटर क्षेत्रफले निर्मीयमाणायाः चौक्याः निर्माणकार्यं आगामि पञ्चदश अगस्त दिवसपर्यन्तं पूर्णं कर्तुं लक्ष्यं निर्धारितम् अस्ति।
शिलान्यासकार्यक्रमस्य अनन्तरं न्यायमूर्ति मंजू रानी चौहान जिलाधिकारी तथा पुलिस अधीक्षिका निर्माणस्थले आम तथा निम्ब वृक्षयोः पौधारोपणं कृत्वा पर्यावरणसंरक्षणस्य सन्देशं दत्तवन्तः। कार्यक्रमस्य अन्ते ग्रामनिवासी एवं आगन्तुकानां प्रति कृतज्ञतां प्रकटितवान्।
अस्मिन् अवसरे पूर्व प्रमुख अवधराज उर्फ पप्पू सिंह जिला पंचायत सदस्य पार्थ सिंह स्वामीनाथ सिंह राजेन्द्र बिंदः इत्येभिः सहिताः बहुसंख्यकाः ग्रामवासिनः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani