रोजगारात् स्वावलम्बनपर्यन्तम् - योगी-सर्वकारस्य प्रयासैः प्रदेशस्य यूनः सफल-उद्यमिनः भवन्ति
लखनऊनगरम्, १० जूनमासः (हि.स.)। उत्तरप्रदेशे मुख्यमन्त्रीण: योगी-आदित्यनाथस्य नेतृत्वे सर्वकारः सततं एतादृशान् प्रयासान् कुर्वन् अस्ति, यैः ग्राम्य-प्रदेशेषु निवसन्तः जनाः स्व-रोजगार-माध्यमेन आर्थिक-रूपेण सुदृढाः भवितुम् अर्हन्ति। सर्वकारस्य विविध-य
मुख्यमंत्री योगी आदित्यनाथ


लखनऊनगरम्, १० जूनमासः (हि.स.)। उत्तरप्रदेशे मुख्यमन्त्रीण: योगी-आदित्यनाथस्य नेतृत्वे सर्वकारः सततं एतादृशान् प्रयासान् कुर्वन् अस्ति, यैः ग्राम्य-प्रदेशेषु निवसन्तः जनाः स्व-रोजगार-माध्यमेन आर्थिक-रूपेण सुदृढाः भवितुम् अर्हन्ति। सर्वकारस्य विविध-योजनाः न केवलं यूनां कृते रोजगारं प्रदास्यन्ति, अपितु तान् उद्यमिनः भवितुं अवसरम् अपि यच्छन्ति। “आत्मनिर्भर-उत्तरप्रदेश” इति योगी-सर्वकारस्य संकल्पः लखीमपुर-खीरी-जनपदस्य ग्राम-देवरिया-निवासी रामलखन-महोदयेन यथार्थरूपेण साकारः कृतः।

बुधवासरे रामलखनः अवदत् यत् सः किञ्चित् नवीनं कर्तुं तथा स्व-परिवारस्य आर्थिक-स्थितिं सुदृढां कर्तुं स्वप्नं पश्यति स्म। किन्तु संसाधनाभावः तथा पूंजी-अभावः तस्य सम्मुखे प्रमुखा समस्या आसीत्। तस्मिन् काले तस्मै जिला-उद्योग-केंद्र-माध्यमेन सञ्चालितस्य ‘प्रधानमन्त्री-रोजगार-सृजन-कार्यक्रमस्य’ विषये सूचना प्राप्ता। सः अस्यां योजनायां आवेदनम् अकरोत् तथा २०२४ वर्षे तस्मै १० लाख-रूप्यकाणां ऋणं स्वीकृतम् अभवत्।

सर्वकारीय-सहयोगं प्राप्य रामलखनः दुग्ध-उत्पादन-व्यवसायं प्रारब्धवान्। सः डेयरी-उद्योगस्य आरम्भं कृत्वा शनैः शनैः स्व-उद्यमं विस्तारयामास। अद्य तस्य डेयरी-व्यवसायः प्रतिदिनं प्रायः ५ तः ८ कुन्तल-पर्यन्तं दुग्ध-उत्पादनं करोति। स्थानीय-स्तरे दुग्ध-आपूर्तिः क्रियते, येन स्थानीय-विपणम् अपि सुदृढं जातम्।

एतेन न केवलं रामलखनस्य जीवनं परिवर्तितम्, अपितु तेन सह ग्रामस्य अन्ये त्रयः जनाः अपि रोजगारं प्राप्तवन्तः। रामलखनः अद्य व्यय-पर्यन्तं प्रतिमासं प्रायः १५ तः ३० सहस्र-रूप्यकाणां शुद्ध-आयम् अर्जयति।

मुख्यमन्त्रीण: योगी-आदित्यनाथस्य नेतृत्वे रोजगार-स्वरोजगार-उद्यमिता-वर्धनाय सञ्चालिताः एताः योजनाः प्रदेशे आत्मनिर्भरता-आधारे सुदृढं आधारं स्थापयन्ति। एतस्य प्रयत्नस्य फलतः प्रदेशस्य युवा न केवलं रोजगार-प्रार्थिनः भवन्ति, अपितु आत्मनिर्भराः भूत्वा अन्येभ्यः अपि रोजगारं ददति।

Hindusthan Samachar / Divya Ranjan