आस्ट्रेलिया-देशीयः प्रभावकः ‘मुख्यमन्त्री-योगिनः आरक्षक-व्यवस्थायाः’ प्रशंसकः अभवत्
लखनऊनगरम्, १० जूनमास: (हि.स.)। मुख्यमन्त्री-योगी-आदित्यनाथेन सर्वप्रथमा न्याय-व्यवस्थां सुदृढ़ां कृत्वा उत्तरप्रदेशे सुशासनं स्थापितम्। अधुना उत्तरप्रदेश-आरक्षकविभागेन पुनः एकं महत् कार्यं कृत्वा अन्ताराष्ट्रिय-स्तरे स्वस्य पृथक्-परिचयः स्थापितः।
अलीगढ़ एसएसपी ने चोरी गए मोबाइल को  वापस ऑस्ट्रेलियाई इन्फ्लुएंसर को लौटते हुए


लखनऊनगरम्, १० जूनमास: (हि.स.)। मुख्यमन्त्री-योगी-आदित्यनाथेन सर्वप्रथमा न्याय-व्यवस्थां सुदृढ़ां कृत्वा उत्तरप्रदेशे सुशासनं स्थापितम्। अधुना उत्तरप्रदेश-आरक्षकविभागेन पुनः एकं महत् कार्यं कृत्वा अन्ताराष्ट्रिय-स्तरे स्वस्य पृथक्-परिचयः स्थापितः।

आईपीएल-निर्णायक-स्पर्धा-अवसरे चौर्यकृतं आस्ट्रेलिय-देशीय-इन्फ्लुएंसर-जेक-जैकिंग्स-महोदयस्य दूरभाष-यन्त्रं अलीगढ़-आरक्षकेण पुनः प्राप्य तस्मै सुरक्षितं समर्पितम्। अस्मात् घटनातः अन्ताराष्ट्रिय-स्तरे उत्तरप्रदेशस्य विश्वासः पुनः दृढः जातः। दूरभाष-प्राप्तेः अनन्तरं जेक-जैकिंग्स-महोदयेन अलीगढ़-पारक्षकविभागस्य त्वरित-कार्यम् तथा व्यावसायिक-कार्यशैली प्रशंसिता।

आस्ट्रेलिया-देशीयः सोशल-मीडिया-इन्फ्लुएंसर तथा क्रिकेट-कंटेन्ट-क्रिएटर इत्यस्य जेक-जैकिंग्स-महोदयस्य आईफोन-यन्त्रं ३१ मे दिनाङ्के अहमदाबाद-नगरस्थे आईपीएल-निर्णायक-क्रीडा-अवसरे चौर्यं कृतम् आसीत्। २ जून-दिने यन्त्रस्य लोकेशन अलीगढ-नगरे ज्ञातः, ततः सः सामाजिक-माध्यमेन अलीगढ़-आरक्षकं प्रति साहाय्य-प्रार्थनां कृतवान्।

राज्य-सर्वकारस्य प्रवक्ता अवदत् यत् एतत् प्रकरणं गम्भीरतया गृहीत्वा अलीगढ़-आरक्षकविभागस्य सर्विलांस-प्रकोष्ठः सक्रियः अभवत्। तकनीकी-साक्ष्यैः तथा आधुनिक-डिजिटल-ट्रैकिंग-प्रणाल्या अनुसन्धाने प्रारम्भे सति अल्पकाले एव दूरभाष-यन्त्रं प्राप्तम्। आवश्यक-वैधानिक-प्रक्रियाः पूर्णीकृत्य आरक्षक-कार्यालये जेक-जैकिंग्स-महोदयाय यन्त्रं समर्पितम्।

दूरभाष-प्राप्तेः पश्चात् जेक-जैकिंग्स-महोदयः वरिष्ठ-आरक्षक-अधीक्षकं साक्षात्कृत्य आरक्षक-दलाय कृतज्ञतां प्रकटितवान्। तेन विशेषतः सर्विलांस-दलस्य कार्यकुशलता प्रशंसिता, उक्तं च यत् अलीगढ़-आरक्षकविभागेन अल्पकाले एव प्रभावात्मकं कार्यं कृत्वा तस्य विश्वासः अर्जितः। अस्य विदेशीय-नागरिकस्य तथा अन्तरराष्ट्रीय-स्तरस्य लोकप्रिय-क्रिएटर-इत्यस्य प्रशंसा उत्तरप्रदेश-आरक्षकविभागस्य सकारात्मक-प्रतिमां अधिकं सुदृढीकृतवती।

वस्तुतः मुख्यमन्त्रीण: योगी-आदित्यनाथस्य मार्गदर्शने उत्तरप्रदेश-आरक्षकविभाग: सततं प्रौद्योगिकी-आधारित-पुलिसिंग, साइबर-निगरानी तथा सर्विलांस-व्यवस्थां सुदृढीकर्तुं कार्यरतः अस्ति। आधुनिक-तकनीक-संसाधनानां उपयोगः, उत्तरदायित्वं तथा त्वरित-कार्यसंस्कृतिः च आरक्षक-व्यवस्थां अधिक-प्रभावशीलां कृतवती। अलीगढ़-आरक्षकविभागस्य इयं उपलब्धिः पुनः राज्यस्य सकारात्मक-छविं अन्ताराष्ट्रिय-स्तरे सुदृढीकृतवती।

Hindusthan Samachar / Divya Ranjan