Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १० जूनमासः (हि.स.)। केन्द्रसर्वकारस्य वाणिज्य-उद्योगमन्त्रालयस्य अधीनं सञ्चालितं फलता-विशेषार्थिकक्षेत्रम् गतद्वादशवर्षेषु निर्यात-निवेश-रोजगारक्षेत्रेषु उल्लेखनीयां वृद्धिम् अभिलेखितवान्। बुधवासरे कोलकाता-नगरस्थिते प्रेस-क्लब-इत्यत्र आयोजिते संवाददाता-सम्मेलने फलता-एसईजे-इत्यस्य विकासायुक्तः दीनबन्धुसिंहः अवदत् यत् वित्तवर्षे २०२५-२६ मध्ये एसईजेड-इत्यस्य निर्यातमूल्यं वर्धमानं ८५ सहस्रं ९३ कोटिः रूप्यकाणि प्राप्तम्, यत् २०१४-१५ वर्षस्य तुलनायाम् अष्टगुणाधिकम् अस्ति।
तेन उक्तं यत् अस्मिन् अवधौ फलता-एसईजेड पूर्वभारते निर्याताधारित-औद्योगिकविकासस्य प्रमुखकेन्द्ररूपेण स्वीयां सुदृढां परिचितिं निर्मितवान्। २०१४-१५ वर्षे यत्र निर्यातमूल्यं १०,४६९ कोटिः रूप्यकाणि आसीत्, तत्र अधुना तत् वर्धित्वा ८५ सहस्रं ९३ कोटिः रूप्यकाणां अभिलेखीयस्तरं प्राप्तम्।
दीनबन्धुसिंहस्य अनुसारेण रोजगारसृजनक्षेत्रेऽपि महती प्रगतिः अभवत्। २०१४-१५ वर्षे यत्र एसईजेडसम्बद्धोद्योगेषु ४९,८७९ जनाः कार्यरताः आसन्, तत्र अधुना एषा संख्या वर्धित्वा १,२३,८२९ जाता। एवं आहत्य निवेशः १५,५६३ कोटिः रूप्यकेभ्यः वर्धित्वा ४५,३३१ कोटिः रूप्यकाणि प्राप्तवान्।
निर्याताङ्कान् विवृण्वन् सः अवदत् यत् वस्तुनिर्यातः २,५९२ कोटिः रूप्यकेभ्यः वर्धित्वा ५३,४३९ कोटिः रूप्यकाणि प्राप्तवान्, यदा तु सेवानिर्यातः ७,८७७ कोटिः रूप्यकेभ्यः वर्धित्वा ३१,६५४ कोटिः रूप्यकाणि प्राप्तवान्। एषा वृद्धिः क्षेत्रे औद्योगिकक्रियाकलापानां वैश्विकविपणिषु च प्रतिस्पर्धात्मकसामर्थ्यस्य विस्तारं प्रदर्शयति।
फलता-एसईजेड-इत्यस्य अस्याः सफलतायाः अभियान्त्रिकी, वस्त्रनिर्माणम्, रसायनोद्योगः, चर्मोद्योगः, खाद्यप्रसंस्करणम्, इलेक्ट्रॉनिक्स-उद्योगः, रत्नाभरणोद्योगः तथा सूचना-प्रौद्योगिकी एवं सूचना-प्रौद्योगिकी-सक्षम-सेवासम्बद्धोद्योगानां महत्त्वपूर्णा भूमिका वर्तते। एतेषु क्षेत्रेषु निरन्तरवर्धमाननिवेशः उत्पादनं च निर्यातस्य नूतनशिखरप्राप्तौ महत् योगदानं दत्तवन्तौ।
तेन एतदपि सूचितं यत् फलता-एसईजेड-इत्यस्य अधिकारक्षेत्रान्तर्गतायाम् ओडिशा-राज्ये अर्धचालक-निर्माणाय नवीनस्य विशेषार्थिकक्षेत्रस्य अनुमोदनं प्रदत्तम्। अस्याः परियोजनायाः फलस्वरूपं २०३० वर्षपर्यन्तं प्रायः १,२५० कोटिः रूप्यकाणां निर्यातः तथा २५० अधिकानां जनानां प्रत्यक्षरोजगारप्राप्तेः सम्भावना वर्तते।
अधुना फलता-एसईजेड-इत्यत्र ५५ विभागेभ्यः अनुमतिः प्रदत्ता अस्ति, तेषु ४२ विभागाः सक्रियतया सञ्चालिताः सन्ति। पश्चिमबङ्गाल-ओडिशा-झारखण्ड-बिहार-सिक्किम-पूर्वोत्तरराज्यानि आच्छादयन् अयं एसईजेड अधुना पूर्वभारतस्य औद्योगिक-निर्यातविकासस्य महत्त्वपूर्णकेन्द्ररूपेण उदितः अस्ति।
विकासायुक्तेन विश्वासः व्यक्तीकृतः यत् अग्रिमवर्षेषु नवीननिवेशैः, उन्नत-प्रौद्योगिकी-आधारितोद्योगैः तथा अर्धचालकादिषु उदयमानक्षेत्रेषु विस्तारैः सह फलता-एसईजेड देशस्य निर्यातार्थव्यवस्थायां अधिकमहत्त्वपूर्णां भूमिकां निर्वहिष्यति।
Hindusthan Samachar / Divya Ranjan