Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १० जूनमासः (हि.स.)। पश्चिमबङ्गस्य नूतनः वित्तमन्त्री स्वपनदासगुप्तः बुधवासरे पदभार-ग्रहणानन्तरम् अवदत् यत् राज्यस्य आयवृद्धिः सर्वकारस्य प्रमुखा प्राथमिकता भविष्यति। तेन उक्तं यत् राज्यस्य आर्थिकव्यवस्थायां विद्यमानानां न्यूनतानां परीक्षणं कृत्वा राजस्ववृद्धेः नवीनमार्गाणां परिचयः क्रियते।
रासबिहारी-विधानसभाक्षेत्रस्य विधायकः स्वपनदासगुप्तः राज्यस्य वित्तमन्त्री नियुक्तः अस्ति। २०२२ तमे वर्षे तत्कालीनः वित्तमन्त्री अमितमित्रः पदं त्यक्तवान्, तदनन्तरं किञ्चित्कालपर्यन्तं एषः विभागः मुख्यमन्त्र्याः ममताबनर्जी-महोदयायाः अधीनः आसीत्। पश्चात् चन्द्रिमाभट्टाचार्यायै वित्तविभागस्य स्वतन्त्रप्रभारः प्रदत्तः आसीत्।
पदभारग्रहणानन्तरं पत्रकारैः सह संवादं कुर्वन् स्वपनदासगुप्तः अवदत् यत् लोककल्याणकारीयोजनानां सफल-सञ्चालनार्थं राज्यस्य आयवृद्धिः अत्यावश्यकी अस्ति। सः अवदत् यत् यदा अर्थव्यवस्था सुदृढा भविष्यति, उत्पादनं वर्धिष्यते, राजस्वं च वर्धिष्यते, तदा एव जनकल्याणयोजनाः अपि अधिकसम्यक् रूपेण सञ्चालितुं शक्यन्ते।
वित्तमन्त्री अवदत् यत् वर्तमानकाले राज्यस्य आयस्य महत्त्वपूर्णः भागः पेट्रोल-जन्यकरात् तथा मद्यविक्रयात् प्राप्यते। सः अस्य आयक्षेत्रस्य विस्तारस्य तथा नवीनराजस्वस्रोतसां विकासस्य आवश्यकतायाः उपरि बलम् अयच्छत्।
करवृद्धेः विषये पृष्टः सः अवदत् यत् केवलं कराणां वर्धनेन एव राजस्ववृद्धिः न भवति। अनेकवारं करेषु न्यूनीकरणं कृत्वापि आयवृद्धिः साधयितुं शक्यते। सः अवदत् यत् अस्मिन् विषये सम्बन्धितविभागानां अधिकारिभिः सह चर्चां कृत्वा यथोचितनीतिः निर्मास्यते।
उत्तरबङ्गस्य विकासं सर्वकारस्य प्राथमिकतासु गणयन् स्वपनदासगुप्तः अवदत् यत् सः गुरुवासरे उत्तरबङ्ग-प्रदेशस्य प्रवासं करिष्यति। शुक्रवासरे चायोपवन-श्रमिकैः सह मिलित्वा तेषां समस्याः ज्ञातुं तासां समाधानदिशि च आवश्यकपदानि ग्रहीतुं प्रयत्नः करिष्यते।
Hindusthan Samachar / Divya Ranjan