काङ्ग्रेसदले विलयसम्भावनानां मध्ये ऋतब्रतबन्द्योपाध्यायः अवदत्— “वयमेव वास्तविकाः तृणमूलकाङ्ग्रेस-पक्षस्य प्रतिनिधयः स्मः”
कोलकातानगरम्, १० जूनमासः (हि.स.)। पश्चिमबङ्गस्य राजनीतिक्षेत्रे प्रवर्तमानस्य उथलपुथल-परिस्थितेः मध्ये विधानसभायां नवगठितस्य तृणमूल-विधायक-दलस्य नेता ऋतब्रतबन्द्योपाध्यायः बुधवासरे महत्त्वपूर्णं कथनं कृत्वा अवदत् यत् अधुना तेन सह ६४ अधिकाः विधायकाः
रितु व्रत


कोलकातानगरम्, १० जूनमासः (हि.स.)। पश्चिमबङ्गस्य राजनीतिक्षेत्रे प्रवर्तमानस्य उथलपुथल-परिस्थितेः मध्ये विधानसभायां नवगठितस्य तृणमूल-विधायक-दलस्य नेता ऋतब्रतबन्द्योपाध्यायः बुधवासरे महत्त्वपूर्णं कथनं कृत्वा अवदत् यत् अधुना तेन सह ६४ अधिकाः विधायकाः सन्ति तथा च तेषां संख्या निरन्तरं वर्धते। सः काङ्ग्रेसदले सम्भावित-विलयसम्बद्धाः सर्वाः चिन्ताः निराकृत्य स्पष्टतया उक्तवान् यत् तस्य समूहः एव “वास्तविकः तृणमूलकाङ्ग्रेसः” अस्ति, अतः काङ्ग्रेसदले सम्मिलनस्य प्रश्न एव नोत्पद्यते।

विधानसभाभवनात् बहिः पत्रकारैः सह संवादं कुर्वन् ऋतब्रतबन्द्योपाध्यायः अवदत्— “वयमेव तृणमूलकाङ्ग्रेसः स्मः। वयं कस्यापि दलस्य विलयं न कुर्मः। अस्माभिः सह विधायकानां संख्या ६४ अतिक्रान्तवती। सम्भवतः गुरुवासरे एषा संख्या ६५ भविष्यति। स्वाभाविकतया वयमेव तृणमूलकाङ्ग्रेसः स्मः। कः केन सह मिलति इति विषये वयं टिप्पणीं न करिष्यामः, किन्तु पूर्णदायित्वेन वक्तुं शक्नुमः यत् वयं काङ्ग्रेसदले न गच्छामः।”

उल्लेखनीयं यत् ८० तृणमूल-विधायकेषु ५९ विधायकानां हस्ताक्षरैः सह पश्चिमबङ्ग-विधानसभायां यत् “नव-तृणमूल” विधायक-दलम् आरब्धम्, तस्य समर्थनं अधुना ६४ अधिक-विधायकपर्यन्तं प्राप्तम् इति कथनं क्रियते। ऋतब्रतेन उक्तं यत् अपरः एकः विधायकः शीघ्रमेव तस्य पक्षे सम्मिलितः भविष्यति तथा अग्रिमेषु दिनेषु संख्या अधिका वर्धितुं शक्नोति।

तेन एतदपि प्रतिपादितं यत् केवलं विधायकाः एव न, अपितु अधिकांशः सांसदाः अपि काङ्ग्रेस-विलयस्य पक्षे न सन्ति। ऋतब्रतः अवदत्— “यैः सांसदैः सह मम वार्ता अभवत्, तैः अपि उक्तं यत् ते काङ्ग्रेसदले न गमिष्यन्ति। अतः बहुसंख्यकाः सांसदाः विधायकाश्च विलयस्य विरोधिनः सन्ति। जनपद-परिषदां तथा नगर-निकायानां प्रतिनिधयः अपि अस्माभिः सह सन्ति।”

अस्मिन् मध्ये तृणमूलकाङ्ग्रेसदले त्यागपत्र-प्रदानस्य क्रमः निरन्तरं प्रवर्तते। सोमवासरे राज्यसभासांसदः सुखेन्दु-शेखरराय दलं त्यक्तवान्। बुधवासरे राज्यसभासांसदा सुष्मितादेव अपि तृणमूलकाङ्ग्रेसस्य सर्वेभ्यः पदेभ्यः त्यागपत्रं दत्तवती। राजनैतिकवृत्तेषु चर्चा अस्ति यत् अग्रिमेषु दिनेषु अन्येऽपि नेतारः दलात् दूरीभावं स्वीकर्तुं शक्नुवन्ति।

अन्यतः लोकसभायां तृणमूलकाङ्ग्रेसस्य स्थितेः विषयेऽपि निरन्तराः चिन्ताः प्रचलन्ति। राजनैतिकसूत्राणां अनुसारं दलस्य अधिकांशाः सांसदाः अधुना मूलनेतृत्वेन सह न सन्ति। एतत् अपि कथनं क्रियते यत् २० सांसदाः राष्ट्रीयजनतान्त्रिकगठबन्धने सम्मिलिताः अभवन्, अवशिष्टेषु सांसदेषु अपि केषाञ्चित् दृष्टिकोणस्य विषये अनिश्चितता वर्तते।

एतेषां घटनाक्रमानां मध्ये पश्चिमबङ्गे तृणमूलकाङ्ग्रेसस्य सङ्घटनात्मक-भविष्यं, नेतृत्वं तथा राजनैतिक-दिशा इत्येतान् विषयान् अधिकृत्य चर्चाः तीव्राः जाताः। तथापि ऋतब्रतबन्द्योपाध्यायः स्पष्टं संकेतितवान् यत् तस्य पक्षः स्वयमेव तृणमूलकाङ्ग्रेसस्य वैधं बहुमतयुक्तं च मुखं मन्यते तथा काङ्ग्रेसदले विलयस्य सम्भावनां सम्पूर्णतया निराकरोति।

Hindusthan Samachar / Divya Ranjan