Enter your Email Address to subscribe to our newsletters

जोधपुरम्, १० जूनमास: (हि.स.)। नगरस्य मन्दिरेषु देवस्थान-विभागेन विशेष-पूजार्चना अद्य आयोजिता। एतेषु धार्मिक-कार्यक्रमेषु बहवः जनप्रतिनिधयः अपि उपस्थिताः अभवन्।
देवस्थान-विभागस्य सहायक-आयुक्तः ओमप्रकाश-पालीवालः अवदत् यत् बुधवासरे प्रातःकाले जोधपुर-नगरेण सह सम्पूर्णे संभागे ३२ मन्दिरेषु पूजार्चना तथा मङ्गल-प्रार्थना-कार्यक्रमः सम्पन्नः। एतेषु देवस्थान-विभाग-प्रबन्धितेषु तथा नियन्त्रितेषु मन्दिरेषु, अराजकीय-मन्दिरेषु च प्रन्यासेषु स्थानीय-परम्परानुसारं विधिवत् पूजा-अर्चना कारिता। अस्मिन् कार्यक्रमे भक्तजनै: सह जनप्रतिनिधयः अपि सहभागीभूताः।
शेखावतः हनुमान-मन्दिरे पूजार्चनां कृतवान्
जोधपुर-सांसदः तथा केन्द्रीय-संस्कृति-पर्यटन-मन्त्री गजेन्द्रसिंह-शेखावतः अद्य दिल्ली-नगरे स्थिते प्राचीन-हनुमान-मन्दिरे पूजार्चनां कृत्वा प्रधानमन्त्रिण: नरेन्द्रमोदी-महोदयस्य दीर्घायु-आरोग्य-यशस्वी-जीवनाय कामनाम् अकरोत्। प्रधानमन्त्री-नरेन्द्रमोदी-महोदयस्य जनसेवा-राष्ट्रसेवा-निर्धन-कल्याणाय समर्पितस्य द्वादश-वर्षीय-कार्यकालस्य पूर्त्युपलक्ष्ये अस्य विशेष-पूजार्चनायाः समये मन्त्री शेखावतः हनुमानदेवं प्रति प्रार्थनां कृतवान् यत् प्रधानमन्त्रिणं सततं स्वस्थं, ऊर्जावन्तं दीर्घायुष्मन्तं च कुर्यात्, तथा तस्य नेतृत्वे भारतं निरन्तरं विकासस्य प्रगतेः पथे अग्रे गच्छतु। अस्मिन् सन्दर्भे तेन राष्ट्रस्य समृद्धि-विकास-जनकल्याणाय अपि प्रार्थना कृता।
Hindusthan Samachar / Divya Ranjan