Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 11 जूनमासः (हि.स.)।
देशे उपभोक्तृसामग्रीणां मूल्येषु पारदर्शितायाः अभावं प्रति असर्वकारीसङ्घटना अखिलभारतीयग्राहकपञ्चायत राष्ट्रव्यापिजनजागरूकताभियानस्य अन्तर्गतं शुक्रवासरे १२ जून दिने अत्र जन्तरमन्तरे शान्तिपूर्णं प्रदर्शनं करिष्यति।
दिल्लीस्थिते प्रेसक्लबमध्ये गुरुवासरे आयोजिते संवाददातृसम्मेलने सङ्घटनायाः राष्ट्रियाध्यक्षः नारायणभाई शाह अवदत् यत् सङ्घटना उपभोक्तृणाम् अधिकाररक्षणार्थं शासनस्य पुरतः स्पष्टवैज्ञानिकमानदण्डाः, युक्तिसङ्गतमूल्यनिर्धारणम्, मुद्रितमूल्यसीमायाः निर्धारणम् तथा नियामकसंस्थायाः गठनम् इत्यादयः अनेकाः मागाः स्थापयिष्यति।
शाह अवदत् यत् वर्तमानस्य अधिकतमखुद्रामूल्यव्यवस्था स्वस्य मूलोद्देश्यतः पूर्णतया विचलिता अभवत्। प्रारम्भे शासनम् उपभोक्तृणां स्थानीयकराणां मनमानीव्यवहारात् रक्षणार्थम् एतां व्यवस्थां प्रवर्तितवती आसीत्, किन्तु अद्य एषा निर्मातृणां व्यापारिणां च हस्तयोः कठपुतली इव जाता अस्ति।
शाह हिन्दुस्थानसमाचाराय अवदत् यत् यदि शासनम् त्वरितं पदक्षेपं न गृह्णाति तर्हि मुम्बईनगरे उचितसमये एमआरपी विषयम् अधिकृत्य उपवेशनम् आयोजितं भविष्यति। एतदतिरिक्तं सङ्घटना राज्यशासनस्य दृष्टिकोणं, वाणिज्यमन्त्रालयस्य वित्तमन्त्रालयस्य च भूमिकां प्रति निरन्तरं सम्पर्के स्थास्यति तथा च मागानां पूर्त्यर्थं दबावं स्थापयिष्यति।
मुम्बईनगरस्य अतिरिक्तं गुवाहाटीनगरे देशस्य अन्येषु भागेषु च जागरूकताभियानं चालयिष्यते, यतः अद्यापि विशालजनसमूहः एमआरपी सम्बन्धिनां यथार्थनियमानां विषये अवगतिं न धारयति। तेषां मतानुसारं शासनस्य स्पष्टनियमानाम् अभावे कम्पनीसङ्घटनाः स्वेच्छया मनमाने मूल्यं मुद्रयन्ति। अस्य कारणेन वास्तविकलागतिमूल्यस्य मुद्रितमूल्यस्य च मध्ये सम्बन्धः समाप्तः अभवत्।
सङ्घटनया उक्तं यत् देशव्यापिजनान्दोलनस्य मुख्योद्देश्यः व्यापारिभ्यः उचितलाभस्य प्राप्तिः भवेत् तथा च उपभोक्तृभ्यः वस्तूनि उचितमूल्येन उपलब्धानि भवेयुः। अस्मिन् अवसरे दिल्लीप्रान्तसचिवः बंटी चौरसिया इत्यादयः सङ्घटनस्य अनेके वरिष्ठपदाधिकारिणः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani