तिलानि कृषकेभ्यःआरब्धम् ‘ऑयलसीड्स किसान मित्र’ सेवा, व्हाट्सएपमध्ये लप्स्यते 24 घंटात्मकः निश्शुल्कं कृषिपरामर्शः
नवदिल्ली, 11 जूनमासः (हि.स.)। तैलबीजशस्यानां कृषिं कुर्वतां कृषकाणां कृते शुभा वार्ता अस्ति। गुरुवासरे भारतीयकृषिअनुसन्धानपरिषदः अंतर्गत भारतीयतैलबीज-अनुसन्धानसंस्थाने ‘ऑयलसीड्स किसान मित्र’ नामकां देशस्य प्रथमां व्हाट्सएप आधारितां कृत्रिमबुद्धि
व्हाट्सएप


नवदिल्ली, 11 जूनमासः (हि.स.)।

तैलबीजशस्यानां कृषिं कुर्वतां कृषकाणां कृते शुभा वार्ता अस्ति। गुरुवासरे भारतीयकृषिअनुसन्धानपरिषदः अंतर्गत भारतीयतैलबीज-अनुसन्धानसंस्थाने ‘ऑयलसीड्स किसान मित्र’ नामकां देशस्य प्रथमां व्हाट्सएप आधारितां कृत्रिमबुद्धि परामर्शसेवां प्रारब्धवान्।

अस्याः सेवायाः माध्यमेन कृषकाः अधुना गृहे उपविष्टाः स्वस्य चलदूरवाण्यां एव तैलबीजशस्यानां सम्बन्धिनीं सर्वविधां वैज्ञानिकां अनुसन्धानाधारितां च सूचना प्राप्तुं शक्नुवन्ति। विशेषता एषा यत् एषा सेवा चतुर्विंशतिघण्टाः, सप्ताहस्य सप्तदिनानि च पूर्णतया निःशुल्कतया उपलब्धा भविष्यति।

कृषिमन्त्रालयेन गुरुवासरे विज्ञप्तिः प्रदत्ता यत् ऑयलसीड्स किसान मित्र अनुप्रयोगस्य व्हाट्सएप संख्या +९१ ४०२४५९८१८० इति स्थापिता अस्ति यस्मिन् कृषकाः स्वभाषायां प्रश्नानां उत्तराणि प्राप्तुं शक्नुवन्ति। संवादयन्त्रे पृष्टानां प्रश्नानां त्वरितम् उत्तरं प्रदाय शस्यप्रबन्धनम्, उन्नतप्रजातीनां चयनम्, कीट एवं रोगनियन्त्रणम्, सिंचनम् तथा कटनोत्तरप्रौद्योगिकीषु सम्बन्धिनीं सूचना उपलब्धां करिष्यति।

एषा सेवा मूङ्गफली, सर्षप, तिल, सूर्यपुष्प, सोयाबीन तथा रामतिल इत्यादीनां प्रमुखतैलबीजशस्यानां कृते उपयोगिनी भविष्यति।

आईसीएआर आईआईओआर संस्थायाः निदेशक आर के माथुर माध्यमैः उक्तवान् यत् प्रथमवारं आईसीएआरस्य तैलबीजअनुसन्धानस्य लाभः देशस्य प्रत्येकं कृषकं प्रति स्वभाषायां व्हाट्सएप माध्यमेन प्राप्यते। अनेन भाषा, दूरी तथा व्यय इत्यादयः बाधाः समाप्ताः भविष्यन्ति।

एषा पहल खरीफ बुवाई ऋतुकाले कृषकाणां कृते समुचितसमये समुचितपरामर्शस्य उपलब्धिं कर्तुं तथा देशे तैलबीजोत्पादनस्य वर्धनस्य दिशि महत्त्वपूर्णं पदं मन्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani