Enter your Email Address to subscribe to our newsletters

पश्चिम-बर्दवान-जनपदः, ११ जूनमासः (हि.स.)। बाराबनी-विधानसभा-क्षेत्रस्य नुनी-ग्राम-पञ्चायतस्य अन्तर्गतस्थे २८१-सङ्ख्याके आईसीडीएस-केन्द्रे बाजपाड़ा-क्षेत्रे गुरुवासरे विशेष-शिविरस्य आयोजनम् अभवत्।
द्वि-इञ्जिन-सर्वकारस्य जनमुखी-योजनायाः अन्नपूर्णा-योजनायाः लाभं जनसामान्यपर्यन्तं शीघ्रं प्रापयितुम् अस्मिन् विशेष-शिविरे सङ्गणक-यन्त्रस्य माध्यमेन अन्तर्जाल-आवेदन-पत्र-पूर्तिः तथा आवश्यक-तथ्य-सम्बद्ध-सहायता प्रदत्ता।
विशेषतः अनुसूचित-जनजाति-बहुलस्य अस्य क्षेत्रस्य जनान् योजनया सह संयोजयितुं तथा तेषां कृते सर्वकारीय-सुविधानां लाभं सुनिश्चितीकर्तुं सर्वथा सहयोगः कृतः। उपस्थितैः अधिकारिभिः जनानां समस्याः श्रुताः तथा च आवेदन-प्रक्रियायाः विषये विस्तृत-सूचना प्रदत्ता।
सर्वकारीय-योजनानां सेवाः च जनसामान्यस्य गृहद्वारं यावत् प्रापयितुं तथा आवश्यकतावतां जनानां साहाय्यं कर्तुमेव अस्माकं सङ्कल्पः अस्ति। अन्नपूर्णा-योजना इव जनकल्याणकारी-योजनानां लाभः प्रत्येकं पात्र-व्यक्तिं यावत् प्राप्नुयात् इत्युद्देशेन अयं प्रयासः निरन्तरं प्रवर्तिष्यते।
Hindusthan Samachar / Divya Ranjan