Enter your Email Address to subscribe to our newsletters

अयोध्यानगरम्, ११ जूनमासः (हि.स.)। डॉ.राममनोहरलोहिया-अवधविश्वविद्यालयस्य व्यवसाय-प्रबन्धन-उद्यमिता-विभागे गूगल-स्टुडेन्ट-एम्बेसडरौ आशुतोषसिंहः साक्षीवर्मा च द्वारा विद्यार्थिनां कृते विशेषा ए.आइ.-कार्यशाला आयोजिता।
अस्यां कार्यशालायां विद्यार्थिनः गूगल-संस्थायाः अत्याधुनिक-ए.आइ.-उपकरणैः जेमिनी, नैनो बनाना तथा लिरिया इत्यादिभिः सम्बन्धितं विस्तृतं ज्ञानं प्रदत्तम्।
अस्मिन् अवसरे विभागाध्यक्षः प्रो. शैलेन्द्रकुमारवर्मा उक्तवान् यत् वर्तमानकाले कृत्रिम-बुद्धिमत्ता शिक्षा-उद्योगयोः नूतनान् आयामान् स्थापयति। एतादृश्यः कार्यशालाः विद्यार्थिनः न केवलं तकनीकी-ज्ञानं प्रददति, अपि तु तान् नवाचार-उद्यमिता-दिशि अपि प्रेरयन्ति।
डॉ.अनुरागतिवारी उक्तवान् यत् ए.आइ.-आधारितानां तकनीकी-ज्ञानं अद्यतन-विद्यार्थिनां कृते अत्यावश्यकम् अस्ति। एतादृश्यः कार्यशालाः विद्यार्थिनः आधुनिक-प्रौद्योगिक्या सह संयोजयन्ति तथा तेषां व्यावहारिक-कौशलानाम् अपि विकासं कुर्वन्ति।
कार्यशालायाः समापन-सत्रे सर्वैः दलैः स्व-स्व-परियोजनाः प्रस्तुताः तथा पोस्टर-चित्र-संगीत-प्रदर्शनं कृतम्।
Hindusthan Samachar / Divya Ranjan