असमे कुमार-भास्कर-वर्म-सेतौ आयोजितायां ‘प्रगति-पथ-यात्रायां’ केन्द्रीयमन्त्री सी.आर.पाटिलः सम्मिलितः
गुवाहाटीनगरम्, ११ जूनमासः (हि.स.)। असम-राज्यस्य गुवाहाटीनगरे ब्रह्मपुत्र-नद्याः उपरि निर्मिते कुमार-भास्कर-वर्म-सेतौ गुरुवासरे ‘प्रगति-पथ-यात्रा’ आयोजिता अभवत्। अस्मिन् कार्यक्रमे केन्द्रीय-जलशक्ति-मन्त्री सी.आर.पाटिलः, स्थानीय-विधायकः विजय-गुप्तः
गुवाहाटी में ब्रह्मपुत्र नदी पर बने कुमार भास्कर वर्मा सेतु पर आयोजित प्रगति पथ यात्रा में शामिल केंद्रीय मंत्री सीआर पाटिल, स्थानीय विधाय विजय गुप्ता एवं अन्य।


गुवाहाटीनगरम्, ११ जूनमासः (हि.स.)। असम-राज्यस्य गुवाहाटीनगरे ब्रह्मपुत्र-नद्याः उपरि निर्मिते कुमार-भास्कर-वर्म-सेतौ गुरुवासरे ‘प्रगति-पथ-यात्रा’ आयोजिता अभवत्। अस्मिन् कार्यक्रमे केन्द्रीय-जलशक्ति-मन्त्री सी.आर.पाटिलः, स्थानीय-विधायकः विजय-गुप्तः तथा बहुसङ्ख्याकाः भारतीयजनतापक्ष-कार्यकर्तारः भागं गृहीतवन्तः।

विदितं यत् विकसित-भारतस्य संकल्पं जन-जनपर्यन्तं नेतुं विविधाः प्रेरणादायक-कार्यक्रमाः अद्य आयोजिताः। तेषु केन्द्रीयमन्त्री सहितं समाजस्य सर्वेषां वर्गाणां जनाः उत्साहेन भागं स्वीकृतवन्तः।

कार्यक्रमस्य आरम्भे कुमार-भास्कर-वर्म-सेतौ आयोजितायाः ‘प्रगति-पथ-यात्रायाः’ प्रारम्भः अभवत्। यात्रायां उपस्थित-जनसमुदायस्य मध्ये प्रधानमन्त्री नरेन्द्रमोदिनः कुशल-नेतृत्वे विगतानां द्वादश-वर्षाणां मध्ये देशे सम्पन्नानां अभूतपूर्व-विकास-कार्याणां, आधारभूत-संरचनायां जातानां क्रान्तिकारी-परिवर्तनानां तथा जनकल्याणकारी-उपलब्धीनां विस्तरेण वर्णनं कृतम्।

तदनन्तरं उत्तर-गुवाहाटीनगरे स्थिते ऐतिहासिके श्री-दोल-गोविन्द-मन्दिर-परिसरे विशेष-कार्यक्रमः आयोजितः। तत्र पर्यावरण-संरक्षणस्य हरित-चेतनायाश्च संदेशं दत्त्वा वृक्षारोपणं कृतम्। अस्मिन् अवसरे ‘विकसित-भारत-संकल्प-सम्मेलनम्’ इति कार्यक्रमे स्थानीय-नागरिकैः तथा प्रबुद्धजनैः सह प्रत्यक्षसंवादः कृतः, यत्र देश-राज्ययोः विकासविषये विस्तृतचर्चा अभवत्।

एतस्यैव श्रृङ्खलायां विशेष-जनसंपर्क-अभियानः अपि सञ्चालितः। अस्मिन् अभियाने स्थानीयजनैः सह प्रत्यक्षं मिलित्वा तेषां मूल्यवान् विचाराः, प्रतिक्रियाः च प्राप्ताः।

असम-राज्यस्य निरन्तर-प्रगतिः, सुदृढा आधुनिकाधारभूत-संरचना, सर्ववर्गेषु दृश्यमानः जनभागीदारी-उत्साहः च एतस्य प्रमाणं यत् ‘विकसित-भारत’ इत्यस्य संकल्पः अधुना जन-आन्दोलनरूपं गृहीत्वा राष्ट्रं नवशक्तिं संप्रददाति।

Hindusthan Samachar / Divya Ranjan