Enter your Email Address to subscribe to our newsletters


नवदेहली, ११ जूनमासः (हि.स.)। भगवत: बुद्धस्य द्वौ प्रमुखौ प्रियशिष्यौ—अर्हन्तौ सारिपुत्रः च मौद्गल्यायनः च—तयोः पवित्र-बौद्ध-अवशेषाः मङ्गोलिया-देशे दशदिवसीय-ऐतिहासिक-यात्रां समाप्त्य मध्यप्रदेशस्य रायसेन-जनपदे स्थिते यूनेस्को-विश्वधरोहर-स्थले सांची-नगरे गुरुवासरे पुनः नीताः।
केन्द्रीय-संस्कृति-मन्त्रालयस्य अनुसारं एते पवित्राः अवशेषाः मूलतः सांची-स्तूपेषु एव संरक्षिताः आसन्, यत्र ते पुनः राजकीय-धार्मिक-समादरेण प्रतिष्ठापयिष्यन्ते। ततः पूर्वं बुधवासरे भारतीय-वायुसेनायाः विशेष-विमानेन एते अवशेषाः मङ्गोलिया-राजधानी उलानबटोरतः नवदेहलीं प्रत्यानीताः। तत्र तेषां भव्यं स्वागतं कृतम्।
अद्य अवशेषाणां प्रेषणकाले विमानपत्तने अभिनेत्री तथा लोकसभा-सदस्या कङ्गना-रनौत, भारतीयजनतापक्षस्य राष्ट्रिय-महासचिवः तरुण-चुगः च उपस्थाय स्वगभीरां श्रद्धां प्रकटितवन्तौ।
अस्य यात्रायाः समये अन्ताराष्ट्रिय-बौद्ध-परिसङ्घः तथा केन्द्रीय-सर्वकारस्य प्रतिनिधिभि: सह लद्दाख-उपराज्यपालः विनय-कुमार-सक्सेना अपि पवित्र-अवशेषैः सह उपस्थितः आसीत्। नेतारः उक्तवन्तः यत् एषा यात्रा भारत-मङ्गोलिया-देशयोः पुरातनानां सांस्कृतिक-आध्यात्मिक-संबन्धानां सुदृढीकरणं करोति।
एषा प्रदर्शनी मङ्गोलिया-देशस्य गन्दन-तेगचेनलिङ्ग-मठस्य विशेष-आग्रहात् आयोजितः आसीत्। संस्कृति-मन्त्रालयस्य अधीने भारतीय-राष्ट्रीय-संग्रहालयः मध्यप्रदेश-सर्वकारेण, श्रीलङ्कायाः महाबोधि-सोसायटी-संस्थया तथा IBC-संस्थया सह मिलित्वा ३१ मे-मासतः ९ जूनपर्यन्तं अस्याः सफल-प्रदर्शिन्याः संचालनं कृतवान्।
मङ्गोलिया-बुद्धपूर्णिमा-उत्सवस्य शुभावसरे उद्घाटिता एषा प्रदर्शिनी जनसामान्याय समर्पिता आसीत्, यत्र महान् जनसमूहः दृष्टः। प्रायः चतुस्त्रिंशत्-लक्ष-जनसंख्यायुक्ते मङ्गोलिया-देशे दशदिवसानि यावत् प्रायः एकलक्ष-श्रद्धालवः मठं गत्वा पवित्र-अवशेषाणां दर्शनं कृतवन्तः।
उल्लेखनीयम् यत् एषा ऐतिहासिकी प्रदर्शिनी प्रधानमन्त्री नरेन्द्रमोदिनः मङ्गोलिया-राष्ट्रपतिना खुरेलसुख-उख्ना इत्यनेन सह २०२५ तम-वर्षस्य अक्टोबर-मासे कृतस्य साक्षात्कारस्य समये घोषिता आसीत्। ततः ३० मे-दिने असम-राज्यपालः लक्ष्मण-प्रसाद-आचार्यः एतान् अवशेषान् मङ्गोलिया-शिक्षा-मन्त्रिणे तथा मठाधिपाय औपचारिकतया समर्पितवान्।
भारतदेशात् बहिः एषः अत्यन्त-दुर्लभः अवसरः यत्र एते पवित्र-अवशेषाः विदेशं प्रेषिताः। अद्यावधि केवलं थाईलैण्ड्-मङ्गोलिया-देशौ एव एतेषां दर्शनार्थं गमनम् अभवत्।
Hindusthan Samachar / Divya Ranjan