Enter your Email Address to subscribe to our newsletters

नवदेहली, ११ जूनमासः (हि.स.)। दिल्ली-शिक्षामन्त्रिणा आशीष-सूदेन गुरुवासरे दिल्ली-नगर्यां कोचिङ्ग-संस्थानानां संचालनाय व्यापक-नियामक-नमूना-निर्माण-विषये उच्चस्तरीया सभा आयोजिता। अस्यां सभायां ओल्ड-राजेन्द्र-नगरस्थ-कोचिङ्ग-संस्थान-दुर्घटनायाः सम्बन्धे गौबा-समितेः प्रतिवेदनस्य सिफारिशानां आधारेण दिल्ली-नगरस्य सर्वेषां कोचिङ्ग-संस्थानानां कृते समन्वितः व्यापकः नियामक-नमूना शीघ्रमेव प्रवर्तयिष्यते इति निर्णयः कृतः।
मन्त्रिणा उक्तं यत् दिल्ली-सर्वकारेण नीतिनिर्माण-प्रक्रियायै उच्च-शिक्षा-निदेशकः नोडल-अधिकारीरूपेण नियुक्तः अस्ति।
सूदेन विज्ञप्त्यां उक्तं यत् २०२४-वर्षे ओल्ड-राजेन्द्र-नगरस्थ-कोचिङ्ग-संस्थान-दुर्घटनानन्तरं दिल्ली-उच्च-न्यायालयेन न्यायमूर्तेः (सेवानिवृत्तस्य) आर. के. गौबा इत्यस्य अध्यक्षतायां उच्चस्तरीया समिति: निर्मिता आसीत्। तया समित्या प्रतिवेदनं प्रस्तूय प्रणालीगत-दोषान् चिन्हित्वा कठोर-नियमनस्य तथा पर्यवेक्षणस्य रूपरेखा प्रस्ताविता।
अस्मिन्नेव सन्दर्भे दिल्ली-सचिवालये उच्चस्तरीया समन्वय-सभा आयोजिता, यस्यां नगर-निगम-दिल्ली, दिल्ली-अग्निशमन-सेवा, उच्च-शिक्षा-निदेशालयः, दिल्ली-नागरिक-आरक्षक:, श्रम-विभागः, स्वास्थ्य-विभागः, शहरी-विकास-विभागः इत्यादीनां प्रमुख-नियामक-संस्थानां वरिष्ठाधिकारिणः उपस्थिताः आसन्।
मन्त्रिणा सूदेन उक्तं यत् दिल्ली-सर्वकारः कोचिङ्ग-संस्थानानां विषयं अत्यन्तं गम्भीरतया पश्यति। एषा सभा कोचिङ्ग-संस्थानानां प्रशासन-पर्यवेक्षण-व्यवस्थायां महत्त्वपूर्ण-परिवर्तनस्य प्रतीकः अस्ति, यया अव्यवस्थित-निरीक्षण-व्यवस्थातः समन्वित-शैक्षणिक-नियामक-नमूनायाः दिशि गमनं क्रियते।
सभायां निर्णयः कृतः यत् एकः बहु-विषयक-समितिः निर्मीयते, या शुल्क-रचना, छात्र-सुरक्षा-कल्याणम्, मानसिक-स्वास्थ्य-सहायता-परामर्श-व्यवस्था, आधारभूत-संरचना-मानकाः, भवन-सुरक्षा-अनुपालनम्, अग्नि-सुरक्षा-आपदा-प्रबन्धनम्, शिक्षक-कर्मचारी-कल्याणम् तथा कार्य-परिस्थितीनां मानकीकरणम् इत्यादिषु विस्तृत-दिशानिर्देशान् निर्मास्यति।
सा समितिः कोचिङ्ग-संस्थानानां कृते सूचना-निवारण-तन्त्रस्य निर्माणे अपि कार्यं करिष्यति तथा नियमित-निरीक्षण-पर्यवेक्षणं कठोरतया सुनिश्चितं करिष्यते।
मन्त्रिणा उक्तं यत् प्रस्तावितः नियामक-नमूना दिल्ली-नगरस्य कोचिङ्ग-संस्थानेषु सुरक्षितं, पारदर्शकं, उत्तरदायित्वयुक्तं तथा छात्र-केंद्रितं वातावरणं सुनिश्चितं करिष्यति। दिल्ली देशस्य प्रथमः राज्यः भविष्यति यः कोचिङ्ग-संस्थानानां संचालनाय व्यापक-नियमावलीं प्रवर्तयिष्यति, यत्र देशभरात् छात्राः अध्ययनाय आगच्छन्ति।
Hindusthan Samachar / Divya Ranjan