बिहारस्य शिक्षा मंत्री दिल्ल्याः संस्कृत विश्वविद्यालयस्य कुलपतिना सह मेलनम्
- संस्कृत शिक्षा, शोधः, डिजिटल आभाषिकतकनीकी, भारतीय ज्ञान परंपरा इत्येषां वैश्विक प्रसारे संजाता विस्तृता चर्चा नव दिल्ली, 11 जूनमासः (हि.स.)।संस्कृतभाषायाः संरक्षणसंवर्धनयोः वैश्विकपुनरुत्थानस्य च दिशि एकस्याः महत्त्वपूर्णपहलस्य अन्तर्गतं बिहारस
श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालय (फाइल फोटो)।


- संस्कृत शिक्षा, शोधः, डिजिटल आभाषिकतकनीकी, भारतीय ज्ञान परंपरा इत्येषां वैश्विक प्रसारे संजाता विस्तृता चर्चा

नव दिल्ली, 11 जूनमासः (हि.स.)।संस्कृतभाषायाः संरक्षणसंवर्धनयोः वैश्विकपुनरुत्थानस्य च दिशि एकस्याः महत्त्वपूर्णपहलस्य अन्तर्गतं बिहारस्य शिक्षामन्त्री मिथिलेश तिवारी दिल्लीस्थस्य श्रीलालबहादुरशास्त्रीराष्ट्रिय संस्कृत विश्वविद्यालयस्य कुलपतिना प्रो. मुरलीमनोहर पाठकेन सह गुरुवासरे समागमम् अकरोत्। तेन सह संस्कृतशिक्षायाः भारतीयज्ञानपरम्परायाः च विकाससम्बद्धविविधविषयेषु विस्तृतः विचारविमर्शः कृतः। अस्मिन् अवसरे विश्वविद्यालयस्य कुलसचिवः प्रो. पवन कुमार शर्मा अपि उपस्थितः आसीत्।

अत्र आयोजिते उच्चस्तरीय उपवेशने संस्कृतभाषायाः वर्तमानस्थितेः, तस्याः शैक्षणिकविकासस्य, अनुसन्धानगतिविधीनां तथा भविष्यस्य सम्भावनानां विषये गम्भीरः सार्थकः च विचारविमर्शः अभवत्। उपवेशने अस्य विषयस्य विषये व्यापकः सम्मतिः व्यक्तः यत् संस्कृतम् केवलं प्राचीनभाषा न अस्ति, अपि तु भारतीयसंस्कृतेः दर्शनस्य आध्यात्मिकचिन्तनस्य समृद्धज्ञानपरम्परायाः च मूलाधारशिला अस्ति। अतः तां आधुनिकशिक्षाव्यवस्थया नवीनप्रविधिभिः च सह संयोज्य नवीनपीढ्याः समीपे प्रभावीरूपेण प्रापयितुं आवश्यकता अस्ति।

शिक्षामन्त्री मिथिलेश तिवारी बिहारराज्ये संस्कृतशिक्षां सुदृढां कर्तुं राज्यशासनेन क्रियमाणानां प्रयत्नानां विषये सूचना दत्त्वा उक्तवान् यत् संस्कृतविद्यालयानां महाविद्यालयानां च सुदृढीकरणाय, योग्यशिक्षकाणां नियुक्त्यर्थं तथा विद्यार्थिषु संस्कृतस्य प्रति रुचिवर्धनाय निरन्तरं कार्यं क्रियते। यदि संस्कृतम् अङ्कीयशिक्षणप्रणाल्या, ऑनलाइनमञ्चैः, कृत्रिमबुद्धिआधारितसंसाधनैः तथा जीविकोन्मुखपाठ्यक्रमैः सह संयोज्यते तर्हि एषा युवजनानां कृते अधिकोपयोगिनी आकर्षिका च भवितुं शक्नोति।

उपवेशनस्य समये कुलपतिः प्रो. पाठक विश्वविद्यालयस्य शैक्षणिकउपलब्धीनां, अनुसंधानपरियोजनानां तथा संस्कृतस्य प्रचारप्रसारार्थं राष्ट्रिय अन्ताराष्ट्रियस्तरे सञ्चालितकार्यक्रमाणां विषये सूचना दत्तवान्। तेन उक्तं यत् विश्वविद्यालयस्य लक्ष्यं संस्कृतं केवलं परम्परागताध्ययनपर्यन्तं सीमितं स्थापयितुं न अस्ति, अपि तु तस्याः समकालीनसन्दर्भेषु प्रासङ्गिकतां उपयोगितां च स्थापयितुम् अपि अस्ति। एतस्य उद्देश्यस्य पूर्त्यर्थम् अङ्कीयसंसाधनानां विकासः, ऑनलाइनपाठ्यक्रमाणां सञ्चालनं तथा विदेशीयविश्वविद्यालयैः संस्थाभिः च सह शैक्षणिकसहयोगस्य संवर्धनं क्रियते।

कुलसचिवः प्रो. पवन कुमार शर्मा विश्वविद्यालयस्य प्रशासनिकशैक्षणिकव्यवस्थासु प्रकाशं क्षिपन् अवदत् यत् संस्थाने पारदर्शिनी प्रभावी परिणामाभिमुखी च कार्यसंस्कृतिः विकसित क्रियते। विद्यार्थिभ्यः गुणवत्तायुक्तशिक्षां प्रदातुं तथा अनुसन्धाननवाचारयोः प्रोत्साहनार्थं विश्वविद्यालयः निरन्तरं सुधारात्मकपदक्षेपान् गृह्णाति।

उपवेशने भारतीयज्ञानपरम्परां वैश्विकमञ्चे प्रतिष्ठापयितुं विषयस्य उपरि अपि गम्भीरः विचारविमर्शः अभवत्। उभयपक्षौ संस्कृतशिक्षाक्षेत्रे सहयोगस्य वर्धनाय, विद्यार्थिनां शोधार्थिनां च कृते नवीनावसराणां विकासाय तथा अङ्कीयमाध्यमैः संस्कृतं जनजनस्य समीपं प्रापयितुं आवश्यकतायाः विषये बलं दत्तवन्तौ। अस्मिन् समये संस्कृतं जीविकायाम्, अनुसन्धाने तथा नवाचारे सह संयोजयितुं विविधायामेषु अपि चर्चा कृता।

उपवेशनस्य अन्ते शिक्षामन्त्री तिवारी कुलपतिः प्रो. पाठकश्च विश्वासं व्यक्तवन्तौ यत् एतादृशैः संवादैः सहयोगैः च संस्कृतभाषायै नवीनशक्तिः प्राप्ता भविष्यति तथा च भारतीयज्ञानपरम्परायै राष्ट्रिये अन्ताराष्ट्रियस्तरे नवीनपरिचयः प्राप्तः भविष्यति।

------------

Hindusthan Samachar / Dheeraj Maithani