भारत-नेपालराष्टे सीमापारंगते इंस्टेंट यूपीआई आधारिता धनराशेःअंतरणप्रणाली विमोचिता
- भारतनेपालयोर्मिथः यूपीआई आधारित सीमा-पारंस्थिता धन हस्तांतरण सेवा शुभारब्धा नवदिल्ली, 11 जूनमासः (हि.स)। भारतदेशः नेपालदेशश्च भुगतानं धनस्थानान्तरणं च सुकरं कर्तुं समकक्षव्यक्त्योः मध्ये सीमा पार धनप्रेषणव्यवस्थां प्रारब्धवन्तौ। एषा सेवा उभयोः
यूपीआई के लोगो का प्रतीकात्मक चित्र


- भारतनेपालयोर्मिथः यूपीआई आधारित सीमा-पारंस्थिता धन हस्तांतरण सेवा शुभारब्धा

नवदिल्ली, 11 जूनमासः (हि.स)। भारतदेशः नेपालदेशश्च भुगतानं धनस्थानान्तरणं च सुकरं कर्तुं समकक्षव्यक्त्योः मध्ये सीमा पार धनप्रेषणव्यवस्थां प्रारब्धवन्तौ। एषा सेवा उभयोः समीपवर्तिदेशयोः मध्ये डिजिटलवित्तीयसंयोजनं पारस्परिकसहकार्यं च सुदृढं कर्तुं महत्त्वपूर्णं चरणम् अस्ति।

वित्तमन्त्रालयेन गुरुवासरे प्रकाशितविज्ञप्तौ उक्तं यत् भारतदेशः नेपालदेशश्च यात्रिकाणां व्यापारिणां च कृते भुगतानं धनस्थानान्तरणं च सुकरं कर्तुं ६ जून २०२६ दिनाङ्के आधिकारिकरूपेण समकक्षव्यक्त्योः मध्ये सीमा पार धनप्रेषणव्यवस्थां प्रारब्धवन्तौ। मन्त्रालयस्य अनुसारं एतत् प्रौद्योगिकीसमन्वयः नेशनल पेमेंट्स कॉर्पोरेशन ऑफ इंडिया इत्यस्य अन्तरराष्ट्रीयशाखया एनपीसीआई इन्टरनेशनल पेमेंट्स लिमिटेड तथा नेपाल क्लियरिंग हाउस लिमिटेड इत्यनयोः मध्ये सहकार्यस्य माध्यमेन सम्पन्नः अभवत्।

एषः डिजिटलभुगतानमार्गः उभयोः देशयोः मध्ये व्यवहारव्यवस्थायां महत्त्वपूर्णं परिवर्तनम् आनयिष्यति तथा निम्नलिखितलाभान् प्रदास्यति।

यूपीआई एनपीआई धनप्रेषणसंयोजनस्य प्रमुखविशेषताः

यात्रिकाणां कृते अधिका सुविधा

मुद्राविनिमयस्य जटिलताभ्यः, बहुपरिमाणे नगदधनधारणस्य आवश्यकतायाः तथा अपरिचितविदेशीविनिमयशुल्केभ्यः मुक्तिः भविष्यति।

स्थानीयव्यापारिणां कृते आर्थिकलाभः

नेपालदेशस्य व्यवसायानां कृते बहुसंख्याकप्रौद्योगिकीसमर्थितभारतीयपर्यटकानां ग्राहकार्थं च प्रत्यक्षप्रवेशः भविष्यति, येन व्यवहाराणां परिमाणं वर्धिष्यते।

परिचालनदक्षता

स्थानीयव्यापारिभ्यः नगदधनप्रबन्धने सुविधा भविष्यति, नगदव्यवहारसम्बद्धव्ययः न्यूनः भविष्यति तथा सुरक्षितं वास्तविकसमये भुगताननिपटानं सम्भविष्यति।

वास्तविकसमये प्रत्यक्षधनस्थानान्तरणम्

सीमापार नगदधनवहनस्य अथवा परम्परागतबैङ्कमाध्यमेषु आश्रयस्य आवश्यकता न्यूनता गमिष्यति।

वित्तमन्त्रालयस्य अनुसारं भारतस्य यूपीआई तथा नेपालदेशस्य राष्ट्रियभुगतानअन्तरफलकस्य प्रत्यक्षसमन्वयेन निर्बाधं सुरक्षितं त्वरितं च समकक्षव्यक्त्योः मध्ये धनस्थानान्तरणं सम्भवं जातम्। एषा पहल वित्तीयसमावेशनं सुदृढीकरोति, डिजिटल आर्थिकसमन्वयं प्रोत्साहयति तथा उभयोः देशयोः यात्रिकाणां व्यवसायिनां च कृते सुविधां वर्धयति।

मन्त्रालयेन उक्तं यत् नवप्रचालित एषा व्यवस्था भारतस्य यूनिफाइड पेमेंट्स इंटरफेस इति यूपीआई तथा नेपालस्य नेशनल पेमेंट्स इंटरफेस इति एनपीआई इत्यनयोः मध्ये प्रत्यक्षसम्बन्धं स्थापयति। अनेन उभयोः देशयोः नागरिकाः चलबैङ्क अनुप्रयोगैः डिजिटलधनसञ्चयपुटैः च माध्यमैः प्रत्यक्षरूपेण त्वरितसमये धनस्थानान्तरणं कर्तुं शक्नुवन्ति।

अधुना यूपीआई नवसु देशेषु सिंगापुर, संयुक्त अरब अमीरात, फ्रांस, मॉरीशस, नेपालं, भूटानं, कतरं, श्रीलंका तथा कंबोडिया इत्यादिषु स्वीकृतः अस्ति। एतेषु देशेषु भारतीययात्रिकाः स्वपरिचितयूपीआई मञ्चानां माध्यमेन सुगमतया डिजिटलभुगतानं कर्तुं शक्नुवन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani